________________ शोभनस्तुति-वृत्तिमाला ___ दे० व्या०-व्यमुञ्चच्चक्रेति / हे जनाः ! तं अरं-अरनाथं यूयं आनमत-प्रणमतेत्यन्वयः / ‘णम प्रह्वीभावे' धातुः / 'आनमत' इति क्रियापदम् / के कर्तारः ? / यूयम् / कं कर्मतापन्नम् ? / अरम् / किंविशिष्टं अरम् ? / 'सन्नमदमरमानसंसारं’ मदः पूर्वोक्तः मरो-मरणं मानः-स्मयः संसारो-भवग्रहणं एतेषां पूर्वं 'द्वन्द्वः', ततः सन्नः-क्षीणो मदमरमानसंसारो, यस्येति ‘बहुव्रीहिः' / पुनः किंविशिष्टम् ? / ‘द्रुतकलधौतकान्तं' द्रुतं-गालितं यत् कलधौतं-सुवर्णं तद्वत् कान्तं-कमनीयम् / “कलधौतलौहोत्तमवह्रिबीजा०” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 110) / पुनः किंविशिष्टम् ? / 'आनन्दितभूरिभक्तिभाक्सन्नमदमरमानसं' भूरि-अतिशयेन भक्तिं-सेवां भजन्तीति भूरिंभक्तिभाजः इति 'द्वितीयातत्पुरुषः', आराध्यत्वेन ज्ञानं भक्तिरिति वर्धमानचरणाः, ते च ते सम्-सम्यक् नमन्तश्च ते अमराश्चेति ‘कर्मधारयः', ततः आनन्दितं-प्रीणितं भूरिभक्तिभाक्सन्नमदमराणां मानसं-हृदयं येनेति 'तृतीयाबहुव्रीहिः' / अरं-शीघ्रं यथा स्यात् तथेति क्रियाविशेषणम् / पुनः किंविशिष्टम् ? / 'अनेकपराजितामरं' अनेके पराजिता-भग्ना दिग्विजयादौ अमरा-मगधादिदेवा येन स तम् / “जितो भग्नः पराजितः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 469) / यत्तदोर्नित्याभिसम्बन्धाद् यः अरनाथः चक्रवर्तिलक्ष्मीं तृणमिव क्षणेन-क्षणमात्रेण व्यमुञ्चत्-अत्याक्षीत् / 'मुच मोचने' धातुः / 'व्यमुञ्चत्' इति क्रियापदम् / कः कर्ता ? / 'अरनाथः' / कां कर्मतापन्नाम् ? / चक्रवर्तिलक्ष्मीम् / “चक्रवर्ती सार्वभौमः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 355) / किंविशिष्टां चक्रवर्तिलक्ष्मीम् ? / 'अनेकपराजितां' अनेकपा-हस्तिनः तैः राजितां-भूषितां, चतुरशीतिलक्षगजानामधिपत्वात् / इति प्रथमवृत्तार्थः / / 69 / / ध० टीका-व्यमुञ्चच्चक्रेति / 'व्यमुञ्चत्' त्यक्तवान् / 'चक्रवर्तिलक्ष्मी' चक्रधरश्रियम् / ‘इह' अत्र जगति / 'तृणमिव' तृणं-वीरणादि तदिव / 'यः' / 'क्षणेन' सपदि / 'तम्' | ‘सन्नमंदमरमानसंसारं' मा(म)रः-मरणं सन्नः क्षीणो मदश्च मरश्च मानश्च संसारश्च यस्य तम् / ‘अनेकपराजितां' अनेकपाः-करिणः तैः राजिताम् / ‘अरं' अरनामानम् / “द्रुतकलधौतकान्तं' द्रुतं यत् कलधौतं तद्वत् कान्तम् / 'आनमत' प्रणिपतत / 'आनन्दितभूरिभक्तिभाक्सन्नमदमरमानसं' आनन्दितं-आह्लादितं भूरिभक्तिभाजां-प्रभूतभावजुषां सन्नमतां अमराणां मानसं-मनो येन तम् / 'सार' श्रेष्ठम् / ‘अनेकपराजितामरं' अनेके पराजिताः दिग्विजयादिप्रक्रमे अमरा येन तम् / अथवा चक्रवर्तिलक्ष्मीविशेषणम् / अनेकैः परैः-शत्रुभिर्न जितां अनेकपराजिताम् / ‘अरं' शीघम् / यश्चक्रवर्तिलक्ष्मीं तृणमिव व्यमुञ्चत् तं अरं आनमतेति सम्बन्धः / / 69 / /