________________ श्रीअरजिनस्तुतयः इत्यनेकार्थः / किंविशिष्टं अरम् ? / 'तं' प्रसिद्धम् / तच्छन्दो यच्छब्दमपेक्षते / तं कम् ? / यो जिनः इहसंसारे चक्रवर्तिलक्ष्मी-चक्रधरऋद्धिं सपदि-शीघ्रं क्षणेन-वेगेन तृणमिव-चारणमिव(?) व्यमुञ्चदित्यन्वयः / 'व्यमुञ्चत्' इति क्रियापदम् / कः कर्ता ? / 'यः' जिनः / 'व्यमुञ्चत्' विशेषेण अमुञ्चत्-अत्यजत् / कां कर्मतापन्नाम् ? / 'चक्रवर्तिलक्ष्मीम्' / कस्मिन् ? / 'इह' संसारे / कथम् ? / 'क्षणेन' वेगेन / किमिव ? / 'तृणमिव' / इव-यथा तृणं मुच्यते तद्वच्चक्रवर्तिलक्ष्मी व्यमुञ्चत् / किंविशिष्टं तं अरजिनम् ? / सन्नः-क्षीणः मदो-दर्पः मरो मरणं मानः-अहङ्कारः संसारो-भवः यस्मात् स सन्नमदमरमान-संसारस्तं 'सन्नमदमरमानसंसारम्' / किंविशिष्टां चक्रवर्तिलक्ष्मीम् ? / 'अनेकपा'-गजास्तै राजिता-शोभिता अनेकपराजिता तां 'अनेकपराजिताम्' / पुनः किंविशिष्टं अरं जिनम् ? / द्रुतं-उत्तप्तं यत् कलधौतं-सुवर्णं तद्वत् कान्तः-मनोज्ञः द्रुतकलधौतकान्तस्तं द्रुतकलधौतकान्तम्' / पुनः किविशिष्टं अरं जिनम् ? / आनन्दितं-आनन्दं प्रापितं भूरिः-प्रचुरा भक्तिर्येषां ते भूरिभक्तिभाजः तादृशा ये सन्तः-शोभनाः नमन्तः-प्रणमन्तः ये अमरा-देवास्तेषां मानसं-चित्तं येन स आनन्दितभूरिभक्तिभाकसन्नमदमरमानसस्तं 'आनन्दितभूरिभक्तिभाकसन्नमदमरमानसम्' / पुनः किंविशिष्टं अरं जिनम् ? / 'सारं' प्रधानम् / पुनः किंविशिष्टं अरं जिनम् ? / अनेके-बहवः पराजिताः-विजयीकृता अमराः-मागधवरदामादयो येन सः अनेकपराजितामरस्तं ‘अनेकपराजितामरम्' / एतद् विशेषणं (चक्रवर्तिनः षट्खण्डविजय) यात्रापेक्षया ज्ञेयम् / इति पदार्थः / / अथ समासः-चक्रमअनुवर्तत इति चक्रवर्ती, वा चक्रेण वर्तत इति / चक्रवर्तिनो लक्ष्मीः चक्रवर्तिलक्ष्मीः, तां चक्रवर्तिलक्ष्मीम् / मदश्च मरश्च मानश्च संसारश्च मदमरमानसंसाराः, सन्नाः-क्षीणा गता वा मदमरमानसंसारा यस्मात् स सन्नमदमरमानसंसारः, तं सन्नमदमरमानसंसारम् / न एकेन पिबन्तीत्यनेकपाः, यद्वा अनेकान् पान्तीत्यनेकपाः, अनेकपैः राजिताः अनेकपराजिताः, तां अनेक.पराजिताम् / अरति-संसारसमुद्रस्य परतटंगच्छतीति अरः,तं अरम् / द्रुतं च तत् कलधौतं च द्रुतकलधौतं, द्रुतकलधौतवत् कान्तः द्रुतकलधौतकान्तः, तं द्रुतकलधौतकान्तम् / आनन्द: सञ्जातः अस्मिन्निति आनन्दितः, तम् (आनन्दितम्), भूरिश्वासौ भक्तिश्च भूरिभक्तिः, भूरिभक्तिं भजन्ति ते भूरिभक्तिभाजः, नमन्तश्च ते अमराश्च नमदमराः, सन्तश्च ते नमदमराश्च सन्नमदमराः, भूरिभक्तिभाजश्च ते सन्नमदमराश्च भूरिभक्तिभाक्सन्नमदमराः, भूरिभक्तिभाक्सन्नमदमराणां मानसं भूरिभक्तिभाक्सन्नमदमरमानसं, आनन्दितं भूरिभक्तिभाक्सन्नमदमरमानसं येन स आनन्दितभूरिभक्तिभाक्सन्नमदमरमानसः, तं आनन्दितभूरिभक्तिभाक्सन्नमदमरमानसम् / न एके अनेके, (अनेके) पराजिता अमरा येन सः अनेकपराजितामरः, तं अनेकपराजितामरम् / विंशतिवर्णमयी विषमच्छन्दसा 'वैश्वदेवीनाम्ना स्तुतिरियम् / / इति प्रथमवृत्तार्थः / / 69 / / 1. अयमुलेखो भ्रान्तिमूलक इति प्रतिभाति /