________________ 284 शोभनस्तुति-वृत्तिमाला 'भूरिभक्तिभाजां' भूरिभक्ति-अनुरागं भजन्ति ते भूरिभक्तिभाजः तेषाम्, 'भजां विण्' (सा० सू० 1232) इति विण्, सन्नमतां-प्रणमतां अमराणां-देवानां मानसं-मनो येन स तथा तद् / सन्नमन्तश्च ते अमराश्च सन्नमदमराः, भूरिभक्तिभाजश्च ते सन्नमदमराश्च भूरिभक्तिभाक्सन्नमदमराः इति ‘कर्मधारयः', ततः आनन्दितं भूरिभक्तिभाक्सन्नमदमराणां मानसं येन इति ‘बहुव्रीहिः' / पुनः कथंभूतम् ? / सारं-श्रेष्ठम् / पुनः कथंभूतम् ? / 'अनेकपराजितामरं' अनेके-अपरिमिताः परजिताः-निर्जिताः दिग्विजये अमराःमागधादिदेवाः येन स तथा तम् / तमिति तच्छब्दस्य यच्छब्दसापेक्षत्वात् तं कम् ? / यः अरजिनः इहअत्र जगति चक्रवर्तिलक्ष्मी-सार्वभौमश्रियं तृणमिव-यवसमिव क्षणेन-सपदि व्यमुञ्चत्-त्यक्तवानित्यर्थः / 'मृच्तृ मोक्षणे' धातोरनद्यतने कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिए / 'तुदादेरः' (सा० सू० 1007) इत्यप्रत्ययः / ‘मुचादेर्मुम्' (सा० सू० 1011) इति मुम् / ‘नश्चापदान्ते झसे' (सा० सू० 95) इति मस्यानुस्वारः / दिवादावट्' (सा० सू० 707) / अत्र ‘व्यमुञ्चत्' इति क्रियापदम् / कः कर्ता ? / 'यः' / कां कर्मतापन्नाम् ? / 'चक्रवर्तिलक्ष्मीम्' / चक्रभूमण्डले-द्वादशराजमण्डले चक्रवर्तितुं प्रभुत्वलक्षणां वृत्तिघण्टां कर्तुं शीलमस्य णिनिः चक्रे-राजसमूहे अवश्यं स्वामित्वेन वर्तते वा, आवश्यके णिनिः / चक्रवर्ती / “चक्रवर्ती बल्लगणे चक्रवाके” इति विश्वः / चक्रेण-चक्रायुधरत्नेन वा वर्तत इति चक्रवर्ती तस्य लक्ष्मीः -श्रीः ताम् / नृपाणां चक्रे-समूहे वर्तते चक्रेण चक्रायुधबलेन वा वर्तत इति चक्रवर्ती / लक्षयतिपश्यति नीतिशालिनं इति लक्ष्मीः / 'लक्ष दर्शनाङ्कनयोः' / 'लक्षेमुट् च” (उणा० सू० 440) इतीकारप्रत्यतो मुडागमश्च / अत एव ड्यन्तत्वाभावान्न सुलोपः / ‘कृदिकारादक्तिनो वा ङीप्' इत्यत्र सावर्ण्यग्रहणात् ङीबतोऽपि मैवेयः (ज्ञेयः ?) तेन लक्ष्मीशब्दस्य नदीवद् रूपाणि भवन्ति, 'कृदिकारात्' इति डीषि लक्ष्मीत्यपि भवतीति, दुर्घटे रक्षित इत्युज्ज्वलदत्तः / लक्ष्मीः “लक्ष्मीर्हरेः स्त्रियाम्” इति शब्दप्रभेदः / “चक्रवर्ती सार्वभौमः” इति हैमः (का० 3, श्लो० 355) / “चक्रवर्ती सार्वभौमो, नृपोऽन्यो मण्डले स्त्रियाम्(श्वरः ?)" इत्यमरः (श्लो० 1472) / किमिव ? / तृणमिव / कुत्र ? / इह / केन ? / क्षणेन / कथंभूतां चक्रवर्तिलक्ष्मीम् ? / 'अनेकपराजितां' अनेकपा-द्विरदाः तैः राजितां-शोभिताम् / “दन्ती दन्तावलो हस्ती, द्विरदोऽनेकपो द्विपः” इत्यमरः (श्लो० 1535) / करेण मुखेन च पानात् न एकेन पिबतीत्यनेकपः / ‘सुपि०' (पा० अ० 3, पा० 2, सू० 4) इति योगविभागात् कः / / (3) सौ० वृ०-यः कौ-पृथिव्यां षड्जीवनिकायरक्षको भवति स भवोदधेः अरं-परतटं प्राप्नोत्येव / अनेन सम्बन्धनेनायातस्याष्टादशश्रीअरजिनस्य स्तुतेरों लिख्यते-व्यमुञ्चच्चक्रेति / . हे जनाः ! यूयं तं अरनामानं जिनं आनमत इत्यन्वयः / आनमत' इति क्रियापदम् ! के कर्तारः ? / 'यूयम्' / 'आनमत' प्रणमत / कं कर्मतापन्नम् ? / 'अरम्' / “अरो जिनेऽरं चक्राङ्गे, शीघ्रगे.सत्वरे तटे"