________________ श्रीअरजिनस्तुतयः 283 ज्ञेयम् / तमिति तच्छब्दसहचारित्वाद् यच्छब्दघटनामाह-यः अरजिनः इह-अत्र जगति चक्रवर्तिलक्ष्मीचक्रधरश्रियं तृणमिव-तृणं वीरणादि तदिव क्षणेन-सपदि व्यमुञ्चत्-त्यक्तवान् / अत्रापि 'व्यमुञ्चत्' इति क्रियापदम् / कः कर्ता ? 'यः' / कां कर्मतापन्नाम् ? 'चक्रवर्तिलक्ष्मीम्' / किमिव ? 'तृणमिव' / कुत्र ? 'इह' केन ? 'क्षणेन' / कथंभूतां चक्रवर्तिलक्ष्मीम् ? 'अनेकपराजिताम्' अनेकपाः-करिणः तैः राजिताम् / अनेक-पराजितामरम् इति पदं यत् जिनविशेषणत्वेन व्याख्यातं तत् चक्रवर्तिलक्ष्म्या विशेषणत्वेन व्याख्येयम् / तथाहि-अनेकैः परैः-शत्रुभिः अजितां-अपरिभूताम्, अरं-शीघ्रम् / / अथ समासः-चक्रेण वर्तते इति चक्रवर्ती तत्पुरुषः' / चक्रवर्तिनो लक्ष्मीः चक्र० 'तत्पुरुषः' / तां चक्र० / मदश्च मरश्च मानश्च संसारश्च मंदमर० ‘इतरेतरद्वन्द्वः' / सन्ना मदमरमानसंसारा येन स सन्नमद० 'बहुव्रीहिः' / तं सन्नमद० / अनेकपैः राजिता अनेक० 'तत्पुरुषः' / तां अनेक० / द्रुतं च तत् कलधौतं च द्रुत० 'कर्मधारयः' / द्रुतकलधौतवत् कान्तः द्रुत० 'तत्पुरुषः' / तं द्रुत० / भूरिश्चासौ भक्तिश्च भूरिभक्तिः 'कर्मधारयः' भूरिभक्तिं भजन्तीति भूरिभ० 'तत्पुरुषः' / सन्नमन्तश्च ते अमराश्च सन्नम० 'कर्मधारयः' / भूरिभक्तिभाजश्च ते सन्नमदमराश्च भूरिभ० 'कर्मधारयः' / भूरिभक्तिभाक्सन्नमदमराणां मानसं भूरिभ० 'तत्पुरुषः' / आनन्दितं भूरिभक्तिभाक्सन्नमदमरमानसं येन स आनन्दित० ‘बहुव्रीहिः' / तं आनन्दित० / अनेके च ते पराजिताश्च अनेक० 'कर्मधारयः' / अनेकपराजिता अमरा येन सः अनेक० 'बहुव्रीहिः' / तं अनेक० / चक्रवर्तिलक्ष्मीपक्षे तु-अनेके च ते परे च अनेकपरे ‘कर्मधारयः' / न जिता अजिता 'तत्पुरुषः' / अनेकपरैः अजिता अनेक० 'तत्पुरुषः' / तां अनेक० / / इति काव्यार्थः / / 69 / / सि० वृ०-व्यमुञ्चच्चक्रेति / भो भव्याः ! यूयं तं अरं-अरनाथं आनमत-प्रणमतेत्यर्थः / आयूर्वक‘णम प्रह्रीभावे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनम् / * अत्र 'नम' इति क्रियापदम् / के कर्तारः ? / 'यूयम्' / कं कर्मतापन्नम् ? / 'अरम्' गर्भस्थेऽस्मिन् मात्रा सर्वरलमयोऽरो दृष्ट इत्यरः तम् / “सर्वोत्तमे महासत्त्व-कुले य उपजायते / तस्याभिवृद्धये वृद्धै-रसावर उदाहृतः // " इति हैम्यां नाममालावृत्तौ [इति] वचनाद् अरः / किंविशिष्टं अरम् ? | ‘सन्नमदमरमानसंसारं' मदः-जात्यादिकः मरः-मरणं मानः-अभिमानः संसारः-जन्मजरालक्षणः, मदश्च मरश्च मानश्च संसारश्च 'इतरेतरद्वन्द्वः', सन्नाः-क्षीणा मदमरमानसंसारा यस्य स तथा तम् / पुनः कथंभूतम् ? / ‘द्रुतकलधौतकान्तं' द्रुतं-उत्तप्तं यत् कलधौतं-काञ्चनं तद्वत् कान्तं-कमनीयम् / “कलधौतं रूप्यहेम्नोः” इत्यमरः (श्लो० 2487) / पुनः कथंभूतम् ? | ‘आनन्दितभूरिभक्तिभाक्सन्नमदमरमानसं' आनन्दितं-आनन्दं प्रापितं 1. 'आनमत' इत्यत्राऽपेक्षितम् /