________________ 282 शोभनस्तुति-वृत्तिमाला 18. श्रीअरजिनस्तुतयः अथ श्रीअरनाथाय प्रणिपातःव्यमुञ्चच्चक्रवर्तिलक्ष्मीमिह तृणमिव यः क्षणेन तं .. सन्नमदमरमानसंसारमनेकपराजितामरम / द्रुतकलधौतकान्तमानमतानन्दितभूरिभक्तिभाक्___ सन्नमदमरमानसं सारमनेकपराजितामरम् // 1 // 69 // - द्विपदी (1) ज० वि०-व्यमुञ्चच्चक्रेति / भो भव्याः ! यूयं तं अरम्-अरनामानं जिनम् आनमत-प्रणमत इति क्रियाकारकसण्टङ्क: / अत्र ‘आनमत' इति क्रियापदम् / के कर्तारः ? ‘यूयम्' / कं कर्मतापन्नम् ? 'अरम्' / कथंभूतम् ? 'सन्नमदमरमानसंसारम्' मदः-जात्यादिकः मरः-मरणं मानः-अभिमानः संसारःभवः, सन्नाः-क्षीणा मदमरमानसंसारा यस्य स तथा तम् / पुनः कथं० ? 'द्रुतकलधौतकान्तम्' द्रुतं-उत्तप्तं कलधौत-सुवर्णं तद्वत् कान्तं-कमनीयम् / पुनः कथं ? 'आनन्दितभूरिभक्तिभाक्सन्नमदमरमानसम्' आनन्दितम्-आह्लादितं भूरिभक्तिभाजां-प्रभूतभावजुषां सन्नमतां-प्रणमताम् अमराणां-देवानां मानसं-मनो येन स तथा तम् / पुनः कथं ? 'सारम्' श्रेष्ठम् / पुनः कथं० ? 'अनेकपराजितामरम्' अनेकेअपरिमिताः पराजिता-निर्जिता अमरा-देवा येन स तथा तम् / इदं च विशेषणं दिग्विजयसमयापेक्षया