________________ नस्तुतयः 281 * दे० व्या०–प्रचलदचिरेति / हे पुरुषदत्ते ! ते-तव प्रसादाः-अनुग्रहाः सदसि फलकराः-कार्यकारिणो मे-मम भवन्तु इति सम्बन्धः / 'भू सत्तायाम्' धातुः / भवन्तु' इति क्रियापदम् / के कर्तारः ? / 'प्रसादाः' / किंविशिष्टाः प्रसादाः ? / 'फलकराः' / कस्याम् ? / 'सदसि' सभायाम् / “समाजः परिषत् सदः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 145) / कथम् ? / ‘सपदि-शीघ्रं यथा स्यात् तथेति क्रियाविशेषणम् / 'प्रचलदचिररोचिश्चारुगात्रे !' इति / प्रकर्षण चलन्ती-इतस्ततः स्फुरन्ती या अचिररोचिः-विद्युत् तद्वत् (चारु)-कान्तं गात्रं-शरीरं यस्याः सा तस्याः संवोधनम् / “चला शम्पाऽचिरप्रभा” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 170) / 'समुद्यत्सदसिफलकरामे !' इति / (विलसद्भ्यां असिफलकाभ्यां रामा-रमणीया तस्याः संबोधनम्) / अभीमहासे !' इति / अभीमः-अरौद्रः हासो-हसनं यस्याः सा तस्याः संबोधनम् / हासस्तु हसनं हसः” इत्यभिधानचिन्तामणिः (का०२, श्लो० 210) / 'अरिभीते !' इति अरयो-विपक्षाः तेभ्यो भीः-भयं तस्या ईते !-ईतिभूते ! इति प्राञ्चः / 'अभीमहासेरिभीते !' इति / अभी:-निर्भया महासेरिभीप्रौढमहिषी तांइते ! अर्थादारूढे ! / “लुलायः सेरिभो महः” इत्यभिधानचिन्तामणिः (का०४,श्लो० 348) / एतानि सर्वाण्यपि देव्याः संबोधनपदानि / / इति तुरीयवृत्तार्थः // 4 / 17 / 68 // ध० टीका-प्रचलदिति / 'अंचलदचिररोचिश्चारुगात्रे !' प्रचलन्ती-स्फुरन्ती या अचिररोचिः-तडित् तद्वत् चारुगात्रे-रुचिराङ्गि! / 'समुद्यत्सदसिफलकरामे !' समुद्यन्ती-प्रोल्लसन्ती ये सती-शोभने असिफलकेखड्गचर्मणी ताभ्यां राम-रमणीये ! / 'अभीमहासे !' सौम्यहसने ! / 'अरिभीते !' अरिभ्यो भीः अरिभीः तस्या ईते-ईतिभूते ! / 'सपदि' तत्क्षणम् / 'पुरुषदत्ते !' पुरुषदत्तादेवि ! / 'ते' त्वत्सम्बन्धिनः / भवन्तु' सम्पद्यन्ताम् / ‘प्रसादाः' अनुग्रहाः / ‘सदसि' सभायाम् / ‘फलकराः' कार्यसिद्धिकारिणः / 'मे' मम / 'अभीमहासेरिभीते !' अभी:-अविद्यमानभया या महासेरिभी-महामहिषी तस्यां इते-गते ! / हे पुरुषदत्ते ! सपदि ते प्रसादाः सदसि फलकरा मे भवन्तु इति योगः // 4 / 17 / 68 // (6) अवचूरिः . हे पुरुषदत्ते ! ते-तव प्रसादाः सदसि-सभायां फलकराः-कार्यसिद्धिकारिणो भवन्तु मे-मम / प्रचलन्ती-स्फुरन्ती या विद्युत् तद्वत् चारु गात्रं यस्याः सा तस्याः संबोधनम् / विलसद्भ्यामसिफलकाभ्यांखड्गखेटकाभ्यां रामा-रमणीया तस्याः संबोधनम् / अभीमः-अरौद्रो हासो-हसनं यस्याः / अरिभ्यो भी:भयं तस्या ईतिभूते ! / अभीः-निर्भया या महासेरिभी-प्रौढमहिषी तामिता-गता तस्याः संबोधनम् // 4 / 17 / 68 //