________________ 280 शोभनस्तुति-वृत्तिमाला सौ० वृ०-प्रचलदचिरेति / हे पुरुषदत्ते !-पुरुषदत्तानाम्नि देवि ! ते-तव प्रसादाः-प्रसन्नगुणाः सदसि-सभायां मे-मम फलकराः-फलदायकाः सपदि-शीघ्रं भवन्तु इत्यन्वयः / 'भवन्तु' इति क्रियापदम् / के कर्तारः ? / 'प्रसादाः' / 'भवन्तु' सन्तु / कस्याः ? | 'ते' भवत्याः / किंविशिष्टाः प्रसादाः ? | ‘फलकराः' फलदायिनः / कस्य ? / 'मे' मम / कस्याम् ? / 'सदसि' सभायाम् / कथम् ? / 'सपदि' शीघ्रम् / शेषाणि सम्बोधनपदानि पुरुषदत्ताया ज्ञेयानि / तानि व्याचक्ष्महे वयम् / प्रचलन्तीइतस्ततः झात्कारायमाणा या अचिररोचिः-विद्युत् तद्वत् चारु-मनोज्ञं गात्रं-शरीरं यस्याः सा प्रचलदचिररोचिश्चारुगात्रा, तस्याः सं० हे 'प्रचलदचिररोचिश्वारुगात्रे !' | समुद्यत्-तेजोजाग्रत् सन्शोभनः असिः-खड्गः फलकं-खेटकं ताभ्यां रामा-अभिरामा समुद्यत्सदसिफलकरामा, तस्याः सं० हे ‘समुद्यत्सदसिफलकरामे !' | पुनः अभीम-अरौद्र-सौम्यं हासं यस्याः सा अभीमहासा, तस्याः सं० हे 'अभीमहासे !' | पुनः अरयः-शत्रवः तेषां भी:-भयं तेषु ईतिरिव ईतिः अरिभीतिः, तस्याः सं० हे 'अरिभीते !' / पुनः अभीः-निर्भया महती सेरिभी-महिषी तां प्रति इता-प्राप्ता अभीमहासेरिभीता, तस्याः सं० हे 'अभीमहासेरिभीते !' / 'निर्भयमहामहिष्यारूढे ! इत्यर्थः / इति पदार्थः / / अथ समासः-न चिरं अचिरं, अचिरं रोचिर्यस्याः सा अचिररोचिः, प्रचलन्तीं चासौ अचिररोचिश्च प्रचलदचिररोचिः, प्रचलदचिररोचिर्वत् चारु गात्रं यस्याः सा प्रचलदचिररोचिश्चारुगात्रा, तस्याः सं० हे प्रचलदचिररोचिश्चारुगात्रे ! / असिश्च फलकं च असिफलके, सती च ते असिफलके च सदसिफलके, समुद्यती च ते सदसिफलके च समुद्यत्सदसिफलके, समुद्यत्सदसिफलकाभ्यां रामा समुद्यत्सदसिफलकरामा, तस्याः सं० हे समुद्यत्सदसिफलकरामे ! / न भीमं अभीमं, अभीमं हासं यस्याः सा अभीमहासा, तस्याः सं० हे अभीमहासे ! / अरीणां भीः अरिभीः, अरिभियां ईतिरिव ईतिस्तस्याः सं० हे अरिभीते ! / फलानि कुर्वन्ति ते फलकराः / न (विद्यते) भीः (यस्याः सा) अभीः, महती चासौ सेरिभी च महासेरिभी, अभीश्चासौ महासेरिभी च अभीमहासेरिभी, अभीमहासेरिभी इता अभीमहासेरिभीता, तस्याः सं० हे अभीमहासेरिभीते ! / इति चतुर्थवृत्तार्थः / / 68 / / श्रीमत्कुन्थुजिनेन्द्रस्य, स्तुतेरो लिपीकृतः / सौभाग्यसागराख्येण, सूरिणा ज्ञानसेविना // 1 // // इति कुन्थुजिनस्तुतिः // 4 / 17 / 68 // 1. अत्र ‘हासः' इत्युचितम्, शब्दस्याऽस्य पुल्लिङ्गत्वात् /