________________ श्रीकुन्थुजिनस्तुतयः 279 समुद्यत्सदसिफलकाभ्यां रामा समुद्यत्स० 'तत्पुरुषः' / तत्सम्बो० हे समुद्यत्स० / न भीमः अभीमः 'तत्पुरुषः' / अभीमो हासो यस्याः सा अभी० 'बहुव्रीहिः' / तत्सम्बो० हे अभी० / अरिभ्यो भीः अरिभीः 'तत्पुरुषः' / अरिभिय ईतिः अरिभीतिः ‘तत्पुरुषः' / तत्सम्बो० हे अरिभीते ! / फलं कुर्वन्तीति फलकराः 'तत्पुरुषः' / न विद्यते भीर्यस्याः सा अभीः 'बहुव्रीहिः' / महती चासौ सेरिभी च महा० 'कर्मधारयः' / अभीश्चासौ महासेरिभी च अभी० 'कर्मधारयः' / अभीमहासेरिभी इता अभी० 'तत्पुरुषः' / तत्सम्वो० हे अभीम० / / इति काव्यार्थः / / 68 / / // इति श्रीशोभनस्तुतिवृत्तौ श्रीकुन्थुनाथस्य स्तुतेाख्या // 4 / 17 / 68 // (2) सि० वृ०-प्रचलदचिरेति / पुरुषेषु दत्तं यस्याः सा पुरुषदत्ता तस्याः संबोधनं हे पुरुषदत्ते / तेतव प्रसादा-अनुग्रहाः मे-मम सदसि-सभायां सपदि-तत्क्षणं फलकराः-कार्यसिद्धिकारिणो भवन्तु-सम्पद्यन्तामित्यर्थः / 'भू सत्तायाम्' धातोः ‘आशी:प्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे प्रथमपुरुषबहुवचनम् / अत्र 'भवन्तु' इति क्रियापदम् / के कर्तारः ? | ‘प्रसादाः' / “प्रसादोऽनुग्रहे काव्यगुणस्वास्थ्यप्रसत्तिषु” इति विश्वः / कस्याः ? / 'ते' तव संबन्धिनः / कथंभूताः प्रसादाः ? / 'फलकराः' / कथम् ? / 'सपदि' / कस्य ? / 'मे' / कस्मिन् ? / 'सदसि' / “समाजः परिषत् सदः” इति हैमः (का० 3, श्लो० 145) / अवशिष्टानि पुरुषदत्तायाः संबोधनानि, तद्व्याख्यानं त्वेवम्-हे ‘प्रचलदचिररोचिश्वारुगात्रे !' प्रचलन्ती-प्रकर्षेण चलन्ती-इतस्ततः स्फुरन्ती या ‘अचिररोचिः' अचिरा रोचिर्यस्याः सा अचिररोचिः-विद्युत् तद्वत् चारु-मनोज्ञं गात्रं-देहो यस्याः सा तस्याः संबोधनं हे प्रचल० / हे 'समुद्यत्सदसिफलकरामे !' समुद्यती-प्रोल्लसन्ती सती-शोभनं असिफलके-खड्गखेटके ताभ्यां रामारमणीया तस्याः संबोधनम् / असिश्च फलकं च असिफलके 'इतरेतरद्वन्द्वः', सती च ते असिफलके च सद० 'कर्मधारयः', समुद्यती च ते सदसिफलके च समुद्यत्सदसिफलके 'कर्मधारयः', ततः समुद्यत्सदसिफलकाभ्यां रामा इति 'तत्पुरुषः' / हे 'अभीमहासे !' न भीमः अभीमः 'तत्पुरुषः' / अभीमः-अरौद्रो हासो-हसनं यस्याः सा तथा तस्याः संबोधनं हे अभीम० / हे अरिभीते !' अरिभ्यो भीः-भयं तस्या ईतिरिव ईतिः अरिभीतिः तस्याः संबोधनं हे अरि० / ! “ईतिः प्रवासे डिम्बे स्यादतिवृष्ट्यादिषट्सु च” इति विश्वः / ‘उपमितं व्याघ्रा०' (पा० अ० 2, पा० 1, सू० 56) इति समासः / हे 'अभीमहासेरिभीते !' अभी:भीवर्जिता या महासेरिभी-महामहिषी तां इते !-गते ! महिष्यारूढे ! इत्यर्थः / न विद्यते भीर्यस्याः सा अभीः इति ‘बहुव्रीहिः', महती चासौ सेरिभी च महासेरिभी ‘कर्मधारयः' / “लुलायो महिषो वाह-द्विषत्कासरसेरिभाः” इत्यमरः (श्लो० 996) / / 68 / / // इति श्रीमहामहोपाध्याय० श्रीकुन्थुनाथस्तुतिवृत्तिः // 4 / 17 / 68 //