________________ 278 शोभनस्तुति-वृत्तिमाला प्रमाणम् / चकासन्तः-शोभमानाः कविपदानि-कवियोग्याः शब्दाः गमा भङ्गाश्च यस्मिन् / हेतुदन्तं हेतव एव दन्तौ विपक्षभेदकत्वाद् विषाणौ यस्य तम् / कृतान्तं-यमम् / तुदन्तं-व्यथमानम् / समुद्यन्-समुल्लसन् दानमार्गा-ज्ञानादीनां वितरणक्रमो यस्मिन् / अधैकविपदः-पापैकविपद एवागा-वृक्षास्ते धुता येन / अभङ्ग-अजेयम् / अत्र द्विरदेन श्लेषः / सोऽप्यपेतमर्याद: / तस्यापि पदगमनभङ्गाः शोभन्ते / दानमार्गो मदप्रवाहश्च स्यात् / स च कृतविनाशं च तुदति / / 67 / / श्रीपुरुषदत्तायै प्रार्थनाप्रचलदचिररोचिश्चारुगात्रे ! समुद्यत् सदसिफलकरामेऽभीमहासेऽरिभीते ! / सपदि पुरुषदत्ते ! ते भवन्तु प्रसादाः / सदसि फलकरा मेऽभीमहासेरिभीते // 4 // 68 // - मालिनी (1) .. ज० वि०-प्रचलदचिरेति / हे पुरुषदत्ते !-पुरुषदत्ताभिधे ! ते-तव सम्वन्धिनः प्रसादाः-अनुग्रहाः मे-मम सदसि-सभायां सपदि-तत्क्षणं फलकराः-सिद्धिकारिणः भवन्तु-सम्पद्यन्ताम् इति क्रियाकारकप्रयोगः / अत्र ‘भवन्तु' इति क्रियापदम् / के कर्तारः ? 'प्रसादाः' / कथंभूता भवन्तु ? ‘फलकराः' कथम् ? 'सपदि' / कस्य ? 'मे' / कस्मिन् ‘सदसि' / अवशिष्टानि पुरुषदत्ताया देव्याःसम्बोधनानि / तद्व्याख्यानं त्वेवम्-हे ‘प्रचलदचिररोचिश्चारुगात्रे !' प्रचलन्ती-स्फुरन्ती या अचिररोचिः-तडित् तद्वत् चारु-मनोहरं गात्रं-देहो यस्याः सा तथा तत्सम्वो० हे प्रचल० / हे 'समुद्यत्सदसिफलकरामे' ! समुद्यतीप्रोल्लसन्ती सती-शोभने असिफलके-खड्गखेटके ताभ्यां रामे !-रमणीये ! / हे ‘अभीमहासे !' अभीमःसौम्यः हासो-हसनं यस्याः सा तथा तत्सम्बो० हे अभी० / हे ‘अरिभीते !' अरिभ्यो-वैरिभ्यो या भी:भयं तस्या ईते ! ईतिभूते ! / हे 'अभीमहासेरिभीते !' अभीः-भीवर्जिता या महासेरिभी-महामहिषी तां इते !-गते !, महिष्यारूढे इत्यर्थः / / अथ समासः-अचिरा रोचिर्यस्याः सा अचिररोचिः ‘बहुव्रीहिः' / प्रचलन्ती चासावचिररोचिश्च प्रचल० 'कर्मधारयः' / प्रचलदचिररोचिर्वत् चारु प्रचल० 'तत्पुरुषः' / प्रचलदचिररोचिश्चारु गात्रं यस्याः सा प्रचल० 'बहुव्रीहिः' / तत्सम्बो० हे प्रचल० / असिश्च फलकं च असिफलके 'इतरेतरद्वन्द्वः' / सती च ते असिफलके च सदसि० 'कर्मधारयः' / समुद्यती च ते सदसिफलके च समुद्यत्स० 'कर्मधारयः' /