________________ श्रीकुन्थुजिनस्तुतयः 277 मुद्रा-इयत्ता यस्य स तम्, अपरिमितमित्यर्थः / पुनः किंविशिष्टम् ? / 'चकासत्कविपदगमभङ्गम्' कविपदानि-उत्प्रेक्षाद्यलङ्कारव्यङ्ग्यसूचकानि पदानि [कविपदानि], गमाः-सदृशपाठाः, भङ्गाविकल्पसमूहाः, एतेषां पूर्वं 'द्वन्द्वः', ततः चकासन्तः-शोभमानाः कविपदगमभङ्गा यस्मिन् स तम् / पुनः किंविशिष्टम् ? / ‘हेतुदन्तम्' हेतवः-साध्यगमकाः प्रतिपक्षदुर्गभेदकत्वात् त एव दन्ता-विषाणा यस्य स तम् / “अङ्गुलिः कर्णिका दन्त-विषाणौ स्कन्ध आसनम्” इत्यभिधानचिन्तामणिः (का० 4, श्लो० 290) / पुनः किंविशिष्टम् ? / 'समुद्यद्दानमार्गम्' समुद्यत्-समुल्लसन् दानस्य-वितरणस्य मार्गः-क्रमो यत्र स तम्, सम्यग्ज्ञानद्वारा मुक्तिप्रदायकत्वात् / पुनः किंविशिष्टम् ? ।'धुताधैकविपदगम्" / पुनः किंविशिष्टम् ? / 'अभङ्ग'-अजेयम् / परैरिति शेषः / किं कुर्वन्तं कृतान्तम् ? / 'तुदन्तं' पीडयन्तम् / कम् ? / 'कृतान्तं' यमम् / एतत्प्रतिपादितानुष्ठानकृतो भवग्रहणाभावेन मरणाभावात् / “यमः कृतान्तः पितृदक्षिणाशा-प्रेतात्पतिर्दण्डधरोऽर्कसूनुः” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 98) / अत्र द्विरदेन सह सिद्धान्तस्य श्लेषः / सोऽपि विगतमुद्रो-गतमर्याद: प्रलम्बो भवति, तस्यापि पदगमभङ्गाः-पदप्रकारक्रमाश्चकासति दन्ताश्च भवन्ति दानमार्गो-मदप्रवाहः, सोऽप्यगंधुनोति अभङ्ग(श्च) कृतान्तं-च-विपक्षादिकं च तुदति / / इति तृतीयवृत्तार्थः / / 67 / / ध० टीका-स्मस्तेति / ‘स्मरत' ध्यायत / 'विगतमुद्रं' अपर्यन्तम् / 'जैनचन्द्र' जिनचन्द्रसंबन्धिनम् / ‘चकासत्कविपदगमभङ्ग' चकासन्तः-शोभमानाः कविपदानि-कवियोग्यशब्दाः गमाः भङ्गाश्च यस्मिन् तम् / ‘हेतुदन्तं' हेतव एव प्रतिपक्षभेद(क)त्वात् दन्तौ-विषाणौ यस्य तम् / ‘कृतान्तं' आगमम् / 'द्विरदमिव' द्विपमिव / 'समुद्यदानमार्ग' समुद्यन्-समुल्लसन् दानमार्गा-ज्ञानादीनां वितरणक्रमो यत्र तम् / 'धुताघेकविपदगं' अघं-पापं तदेवैका-अद्वितीया विपत् सैव दुःखफलदायकत्वात् अगो-विटपी, धुतो-निरस्तः अधैकविपदगो येन तम् / ‘अभङ्ग' अजेयम् / 'हे' इत्यामन्त्रणम् / ‘तुदन्तं' पीडयन्तम् / 'कृतान्तं' अन्तकम् / अत्र द्विरदेन सह श्लेषः / सोऽपि विगतमुद्रः-अपेतमर्यादः स्वच्छन्दो भवति, तस्यापि पदगमभङ्गाः-पदप्रचारक्रमाश्चकासति, दन्ताश्च भवन्ति, दानमार्गः-मदप्रवाहः समुदेति, सोऽपि अगं धुनोति अभङ्गश्च / कृतान्तं कृतमिव (?) नाशं विपक्षादिकं तुदति / तदेवं द्विरदमिव हे (भव्य-लोकाः!) जैनचन्द्रं कृतान्तं स्मरतेत्यन्वयः / / 67 / / अवचूरिः हे लोकाः ! जिनचन्द्रसंबन्धिनं कृतान्तं यूयं स्मरत / हस्तिनमिव / किंभूतम् ? / विगतमुद्र-गतअत्र त्रुटिरिति प्रतिभाति / 1.