________________ 276 शोभनस्तुति-वृत्तिमाला “राद्धसिद्धकृतेभ्योऽन्तः” इति हैमः (का० 2, श्लो० 156) / किंविशिष्टं कृतान्तम् ? | 'विगतमुद्र' अपास्तपर्यन्तम् / पुनः किंविशिष्टं कृतान्तम् ? / 'जैनचन्द्रं' तीर्थकरसत्कम् / पुनः किंविशिष्टं कृतान्तम् ? / चकासन्तो दीप्यमानाः कवीनां-पण्डितानां पदानि-पदरचना गमाः-सदृशपाठाः भङ्गाएकद्वित्र्यादयः येषु स चकासत्कविपदगमभङ्गः तं 'चकासत्कविपदगमभङ्गम्' / पुनः किंविशिष्टं . कृतान्तम् ? / हेतवः [दृष्टान्ताः] एव प्रतिपक्षदुर्गभेदनत्वाद् दन्ता इव दन्ता यस्मिन् स हेतुदन्तः तं हेतुदन्तम् / पुनः किंविशिष्टं कृतान्तम् ? / समुद्यत्-सम्यक्प्रकारेण उद्यद्-विलसद् दानं-ज्ञानदर्शनचारित्रादीनां वितरणं तस्य मार्गः-पन्थाः यस्मिन् स समुद्यद्दानमार्गः तं 'समुद्यद्दानमार्गम्' / पुनः किंविशिष्टं कृतान्तम् ? / धुतो-निराकृतः अघ-पापं तदेव एका-अद्वितीया विपद्-आपत् सैव अगो-वृक्षो येन स धुताधैकविपदगः तं 'धुताधैकविपदगम्' / पुनः किंविशिष्टं कृतान्तम् ? 'अभङ्गं' अजेयम् / कृतान्तं किं कुर्वन्तम् ? | 'तुदन्तं' पीडयन्तम् / कं कर्मतापन्नम् ? | ‘कृतान्तम्' यमं मरणं [कृतान्तंसिद्धान्तं वा] / कमिव ? / 'द्विरदमिव' हस्तिनमिव / हस्तिकृतान्तयोः सादृश्यम् / द्विरदोऽपि विगतमुद्रोमुक्तमर्यादो भवति, दीप्यमानकविवर्णनीयपदगमनभङ्गो भवति, दन्तैः कृत्वा दुर्गभेद्यो भवति, समुद्यदानमदमार्गो भवति, निराकृतदुष्टवृक्षोऽपि भवति, (अभङ्गश्च भवति) अरिवर्गं व्यथयन् भवति इति द्विरदेन सह कृतान्तस्य-सिद्धान्तस्य छायार्थः / इति पदार्थः / / अथ समासः-विगता मुद्रा यस्य स विगतमुद्रः, तं विगतमुद्रम् / जिनेषु चन्द्राः जिनचन्द्राः, जिनचन्द्राणामयं जैनचन्द्रः, तं जैनचन्द्रम् / पदानि च गमाश्च भङ्गाश्च पदगमभङ्गा, चकासन्तः कविभिः कृत्वा पदगमभङ्गा यस्मिन् स यस्य वा चकासत्कविपदगमभङ्गः, तं चकासत्कविपदगमभङ्गम् / हेतव एव दन्ता यस्य स हेतुदन्तः, तं हेतुदन्तम् / द्वौ रदौ यस्य स द्विरदः तं द्विरदम् / समुद्यद् दानमार्गो यस्य स समुद्यदानमार्गः, तं समुद्यदानमार्गम् / एका चासौ विपच्च एकविपत्, अघेनैव एकविपत् अर्धेकविपत् सैव अगः अर्धेकविपदगः, गच्छतीति गः, न गः अगः, धुतः अर्धेकविपदगो येन स धुताधैकविपदगः, तं धुताधैकविपदगम् / नास्ति भङ्गः-पराजयो यस्य सः अभङ्गः, तं अभङ्गम् / तुदतीति तुदन्, तं तुदन्तम् / हे इत्यामन्त्रणे भिन्नपदम् / इति तृतीयवृत्तार्थः / / 67 / / (4) दे० व्या०-स्मरतेति / हे भव्यजनाः ! यूयं द्विरदमिव-हस्तिनमिव जैनचन्द्रं कृतान्तं स्मरतस्मृतिविषयीकुरुतेत्यन्वयः / ‘स्मृ चिन्तायाम्' धातुः / ‘स्मरत' इति क्रियापदम् / के कर्तारः ? / 'यूयम्' / कं कर्मतापन्नम् ? / 'कृतान्तं' सिद्धान्तम् / “राद्धसिद्धकृतेभ्योऽन्त, आप्तोक्तिः समयागमौ” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 156) / कमिव ? / 'द्विरदमिव' हस्तिनमिव / किंविशिष्टं कृतान्तम् ? / 'जैनचन्द्रम्' जिनचन्द्रस्य इदं(मं) जैनचन्द्रम् / पुनः किंविशिष्टम् ? / 'विगतमुद्रम्' विगता