________________ श्रीकुन्थुजिनस्तुतयः 275 हेतु० / द्वौ रदौ यस्य स द्विरद: ‘बहुव्रीहिः' / तं द्विरदम् / दानस्य मार्गो दानमार्गः 'तत्पुरुषः' / समुद्यद् दानमार्गो यस्मिन् स समुद्य० 'बहुव्रीहिः / तं समुद्य० / एका चासौ विपत् च एकविपत् 'कर्मधारयः' / अघमेवैकविपद अधै० कर्मधारयः' / अग इव अगः / अवैकविपच्चासावगश्च अधैकवि० 'कर्मधारयः' / धुतोऽधैकविपदगो येन स धुताथै० / तं धुता० / न विद्यते भङ्गो यस्यासौ अभङ्गः ‘बहुव्रीहिः' / तं अभङ्गम् / कृतः अन्तो येन स कृतान्तः ‘बहुव्रीहिः' / तं कृतान्तम् / / इति काव्यार्थः / / 67 / / सि० वृ०-स्मरतेति / हे लोकाः ! यूयं जिनचन्द्रस्येमं जैनचन्द्रं कृतान्तं-सिद्धान्तं स्मरतध्यायतेत्यर्थः / ‘स्मृ चिन्तायाम्' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषबहुवचनं त / 'अप्०' (सा० सू० 691), 'गुणः' (सा० सू० 692), 'स्वरहीनं०' (सा० सू० 36) / तथा च ‘स्मरत' इति सिद्धम् / अत्र ‘स्मरत' इति क्रियापदम् / के कर्तारः ? / 'यूयम्' / कं कर्मतापन्नम् ? / 'कृतान्तम्' / कमिव ? / 'द्विरदमिव' / द्वौ रदौ-दन्तौ यस्य स द्विरदस्तमिव, हस्तितुल्यमित्यर्थः / कथंभूतं कृतान्तम् ? 'विगतमुद्रं' विगता मुद्रा-इयत्ता मानमिति यावद् यस्मात् स तम् / पुनः कथंभूतम् ? / 'चकासत्कविपदगमभङ्गम्' कविपदानि-उत्प्रेक्षा(घ)लङ्कारव्यङ्ग्यसूचकानि गमाः-सदृशपाठाः भङ्गाः-विकल्पस्वमूहाः, कविपदानि च गमाश्च भङ्गाश्च कविपदगमभङ्गाः ‘इतरेतरद्वन्द्वः', चकासन्तः-शोभमानाः कविपदगमभङ्गा यस्मिन् स तथा तम् / पुनः कथंभूतम् ? / ‘हेतुदन्तं' हेतव एव प्रतिपक्षभेदकत्वाद् दन्तौ-विषाणौ यस्य स तम् / “अङ्गुलिः कर्णिका दन्तः-विषाणौ स्कन्ध आसनं” इति हैमः (का० 4, श्लो० 290) / पुनः कथंभूतम् ? | ‘समुद्यदानमार्गम्' समुद्यत्-समुल्लसन् दानमार्गाज्ञानादीनां वितरणक्रमो यत्र स तम् / पुनः कथंभूतम् ? / 'धुताघेकविपदगं' अघं-पापं तदेवैका-अद्वितीया विपद्-आपत् सैव दुःखफलदायकत्वाद् अगो-वृक्षः, धुतो-निरस्तः अधैकविपदगो येन स तथा तम् / एका चासौ विपच्च एकविपत् इति 'कर्मधारयः' / पुनः कथंभूतम् ? | ‘अभङ्गं न विद्यते भङ्गो यस्य स तम्, अजेयमित्यर्थः / किं कुर्वन्तं जैनचन्द्रं कृतान्तम् ? | 'तुदन्तं'-पीडयन्तम् / कम् ? | ‘कृतान्तं'-मरणं, एतत्प्रतिपादितानुष्ठानकृतो भवग्रहणाभावेन मरणाभावादिति भावः / अत्र द्विरदेन सह सिद्धान्तस्य श्लेषः / सोऽपि विगतमुद्रो-गतमर्यादः स्वच्छन्द इति प्रलम्बश्च भवति / तस्यापि कवेर्वर्णयितुं योग्याः पदप्रचारक्रमाश्चकासद्दन्ताश्च भवन्ति / दानमार्गा-मदप्रवाहश्च समुदेति / सोऽपि वृक्षं धुनोति अभङ्गश्च भवति / कृतान्तं-कृतविनाशं विपक्षादिकं तुदतीति / / 67 / / सौ० वृ०-स्मरतेति / हे लोकाः ! यूयं कृतान्तं-सिद्धान्तं स्मरतेत्यन्वयः / स्मरत' इति क्रियापदम् / के कर्तारः ? / 'यूयम्' / ‘स्मरत' ध्यायत / कं कर्मतापन्नम् ? / 'कृतान्तं' सिद्धान्तम् /