________________ 274 शोभनस्तुति-वृत्तिमाला सिद्धान्तस्मरणम्स्मरत विगतमुद्रं जैनचन्द्रं चकासत् कविपदगमभङ्गं हेतुदन्तं कृतान्तम् / द्विरदमिव समुद्यदानमार्गं धुताघै कविपदगमभङ्गं हे तुदन्तं कृतान्तम् // 3 // 67 // - मालिनी ज० वि०-स्मरतेति / हे लोकाः ! यूयं जैनचन्द्रं-जिनचन्द्रसम्बन्धिनं कृतान्तं-सिद्धान्तं स्मरतध्यायत इति क्रियाकारकसम्वन्धः / अत्र ‘स्मरत' इति क्रियापदम् / के कर्तारः ? 'यूयम्' / कं कर्मतापन्नम् ? 'कृतान्तम्' / कथंभूतम् ? 'जैनचन्द्रम्' / कृतान्तं कमिव ? 'द्विरदमिव' हस्तिनमिव, हस्तितुल्यमित्यर्थः / पुनः कथं० कृतान्तम् ? 'विगतमुद्रम्' अपर्यन्तम् / पुनः कथं० ? 'चकासत्कविपदगमभङ्गम्' कविपदानि-कवियोग्यशब्दाः गमाः-सदृशपाठा भङ्गा-एकद्वित्र्यादिपदसंयोगोत्थाः, चकासन्तःशोभमानाः कविपदगमभङ्गा यस्मिन् स तथा तम् / पुनः कथंभूतम् ?, ‘हेतुदन्तम्' हेतवः प्रतिपक्षभेदकत्वाद् दन्तौ-विषाणौ यस्य स तथा तम् / पुनः कथंभूतम् ? 'समुद्यद्दानमार्गम्' समुद्यत्समुल्लसद् दानमार्गा-ज्ञानादीनां वितरणक्रमो यत्र स तथा तम् / पुनः कथं० ? 'धुताधैकविपदगम्' अघंपापं तदेवैका-अद्वितीया विपद्-आपत् सैव दुःखफलदायकत्वाद् अगो-वृक्षः, धुतो-निरस्तः अधैकविपदंगो येन स तथा तम् / पुनः कथं० ? 'अभङ्गम्' अजेयम् / किं कुर्वन्तं जैनचन्द्रं कृतान्तम् ? 'तुदन्तम्' पीडयन्तम् / कं कर्मतापन्नम् ? ‘कृतान्तं' मरणम् / अत्र द्विरदमिवेत्यनेन जिनसिद्धान्तगजयोः साम्यं प्रत्यपादि / यथाहि-गजोऽपि विगतमुद्रः-अपेतमर्यादः स्वच्छन्दो भवति तथा तस्यापि कविपदगमभङ्गाः कविना वर्णयितुं योग्याः पदचारक्रमाश्चकासदन्ताश्च भवन्ति, दानमार्गो-मदप्रवाहश्च समुदेति तथा सोऽपि वृक्षं धुनोति अभङ्गश्च भवति तथा सोऽपि कृतान्तं-कृतविनाशं विपक्षादिकं तुदतीति / / ___ अथ समासः-विगता मुद्रा यस्मात् स विगत० 'बहुव्रीहिः / तं विग० / जिनानां जिनेषु वा चन्द्रो जिनचन्द्र: 'तत्पुरुषः' / जिनचन्द्रस्यायं जैन० / तं जैनचन्द्रम् / कवीनां योग्यानि पदानि कवि० 'तत्पुरुषः' / कविपदानि च गमाश्च भङ्गाश्च कविपद० ‘इतरेतरद्वन्द्वः' / चकासन्तः कविपदगमभङ्गा यस्मिन् स चकासत्क० ‘बहुव्रीहिः' / तं चकासत्क० / द्विरदपक्षे तु गमस्य भङ्गा गमभङ्गाः 'तत्पुरुषः' / पदानां गमभङ्गाः पदगम० 'तत्पुरुषः' / शेषं प्राग्वत् / हेतव एव दन्ता यस्य स हेतु० ‘बहुव्रीहिः' / तं