________________ श्रीकुन्थुजिनस्तुतयः 273 इत्यभिधानचिन्तामणिः (का० 6, श्लो० 71) / पुनः किंविशिष्टेभ्यः ? / 'सन्नयनरवरदेभ्यः' नयनंलोचनं रवो-देशनाध्वनिः रदा-दन्ताः एतेषां 'द्वन्द्वः', ततः सन्तः-शोभना नयनरवरदा येषां ते तथेति समासः / अत्रेन्दीवरश्रीतिरस्कारत्वेन नयनयोः, स्निग्धगम्भीरघोषत्वेन योजनगामित्वेन च देशनाध्वनेः, हीरकादिन्यक्कारित्वेन च रदानां शोभनत्वमवसेयम् / पुनः किंविशिष्टेभ्यः ? / 'सारवादस्तुतेभ्यः' सारःप्रधानो वादो-वाग्विलासो येषां ते सारवादाः-पण्डिताः तैः स्तुतेभ्यः-स्तोत्रीकृतेभ्यः / पुनः किंविशिष्टेभ्यः ? / ‘समधिगतनुतिभ्यः' समधिगता-प्राप्ता नुतिः-स्तुतिः यैस्ते तथा तेभ्यः / “स्तवः स्तोत्रं स्तुतिर्नुतिः” इत्यभिधानचिन्तामणिः (का०२, श्लो० 183) / कस्मात् ? / 'देववृन्दात्' देवानां वृन्द-समूहः तस्मात् / अत्र सामान्यदेवशब्दग्रहणेन देवाश्चातुर्निकाया वोध्याः / किंविशिष्टाद् देववृन्दात् ? / सारवात्-सशब्दात् / समारब्धस्तुतित्वादिति भावः / पुनः किंविशिष्टेभ्यः ? / 'गरीयोनयनरवरदेभ्यः' गरीयांसः नया-नीतयो येषु ते च ते नरा-मनुष्यस्तेिषां वरं-वाञ्छितं ददतीति वरदाः तेभ्यः / / इति द्वितीयवृत्तार्थः / / 66 / / - ध० टीका-सकलेति / 'सकलजिनपतिभ्यः' निखिलतीर्थकृभ्यः / पावनेभ्यः' पवित्रताजनकेभ्यः / 'नमः' इति स्तुत्यर्थे / 'सन्नयनरवरदेभ्यः' रदाः-दशनाः शोभना नयाश्च रवश्च रदाश्च येषां तेभ्यः / ‘सारवादस्तुतेभ्यः' सारः-अर्थप्रधानो वादः-उक्तिर्येषां तेभ्यः, सारेण वादेन स्तुतेभ्यः-वन्दितेभ्यः / 'समधिगतनैतिभ्यः' प्राप्तप्रणामेभ्यः / ‘देववृन्दात्' सुरकदम्बकात् / 'वरीयोनयनरवरदेभ्यः' वरीयोनयाःउरुतरनीतयो ये नरास्तेभ्यो वरदेभ्यः / सारवात् सशब्दात् / स्तुतिपरादित्यर्थः / अस्तु' भवतु / 'तेभ्यः' / ये इत्थंभूताः ‘सारवात्' देववृन्दात् समधिगतनतिभ्यः तेभ्यः सकलजिनपतिभ्यो नमः इति योगः / / 66 / / अवचूरिः . तेभ्यः सर्वजिनेन्द्रेभ्यो नमोऽस्तु / किंभूतेभ्यः ? / 'पावनेभ्यः'-पवित्रताजनकेभ्यः / सन्तःशोभमाना नयनानि-लोचनानि रवो-देशनाध्वनिः रदा-दन्ताश्च येषां तेभ्यः / सारः-अर्थप्रधानो वादउक्तिर्येषां तैः स्तुताः / यद्वा सारश्चासौ वादश्च तेन स्तुताः तेभ्यः / समधिगता-प्राप्ता नुतिर्येस्तेभ्यः / कस्मात् ? / 'देवसमूहात्' / किंविशिष्टात् ? / ‘सारवात्'-प्रस्तुतस्तुतिकात् / गरीयांसो-गरिष्ठा नयानीतयो येषु ते च ते नराश्च तेषां वरदेभ्यः / इत्थंभूतेभ्यो जिनेभ्यो नमोऽस्तु-भवतु / / 66 / / 1. अशुद्धमिदम्, 'वृन्द' इत्यपेक्ष्यते शब्दस्य पुल्लिङ्गत्वात् / __ अन्यास टीकासु 'xxनतिभ्य' इति पाठस्य स्वीकारः परन्तु धनपालीयटीकायां-'नतिभ्य' इति पाठस्य स्वीकृतिर्दश्यते तत्र कारणं 'समधिगतनतिभ्य' इति पाठान्तरम् / 3. अत्र ‘वरीय' इत्युचितम्मूलपाठास्यैवम्विधात् /