________________ 272 शोभनस्तुति-वृत्तिमाला (3) सौ० वृ०-सकलेति / तेभ्यः सकलजिनपतिभ्यः-समस्ततीर्थकृद्भ्यः नमः अस्तु / 'अस्तु' इति क्रियापदम् / किं कर्तृ ? / 'नमः' / 'अस्तु' भवतु / नमस् इत्यव्ययं प्रणामार्थे / केभ्यः ? | 'सकलजिनपतिभ्यः'। किंविशिष्टेभ्यः सकलजिनपतिभ्यः ? / ‘पावनेभ्यः' पवित्रेभ्यः / पुनः किंविशिष्टेभ्यः सकलजिनपतिभ्यः ? | सन्तः-शोभमाना नयनानि-लोचनानि रवाः-शब्दा रदा-दन्ता येषां ते सन्नयनरवरदास्तेभ्यः ‘सन्नयनरवरदेभ्यः' / पुनः किंविशिष्टेभ्यः सकलजिनपतिभ्यः ? | सारः-श्रेष्ठः वादो-वाक्चातुर्यलक्षणः तेन स्तुताः-स्तविताः सारवादस्तुताः तेभ्यः ‘सारवादस्तुतेभ्यः' / पुनः किंविशिष्टेभ्यः सकलजिनपतिभ्यः ? / सं-सम्यक् प्रकारेण अधिगता-प्राप्ता नुतिः-स्तुतिः पूजा वा यैस्ते समधिगतनुतयः तेभ्यः ‘समधिगतनुतिभ्यः' / कस्मात् ? / 'देववृन्दात्' / किंविशिष्टेभ्यः सकलजिनपतिभ्यः ? / 'तेभ्यः' यमकान्त्यपदगतस्तच्छब्दः यच्छब्दं नापेक्षते, तेभ्यः-प्रसिद्धेभ्यः / पुनः किंविशिष्टेभ्यः सकलजिनपतिभ्यः ? / गरीयांसो-महान्तो ये नया-नैगमाद्या येषां ते तादृशा ये नरामनुष्याः तेषां वरदा-अभीष्टदायकाः गरीयोनयनरवरदाः, तेभ्यः ‘गरीयोनयनरवरदेभ्यः' / तादृशेभ्यः सकलजिनपतिभ्यः नमोऽस्तु / इति पदार्थः / / अथ समासः-जिनानां पतयः जिनपतयः, सकलाश्च ते जिनपतयश्च सकलजिनपतयः, तेभ्यः सकलजिनपतिभ्यः / नयनानि च रवाश्च रदाश्च नयनरवरदाः, सन्तः-शोभमानाः प्रशस्ता वा नयनरवरदा येषां ते सन्नयनरवरदाः, तेभ्यः सन्नयनरवरदेभ्यः / वदनं वादः, सार(रो) वादो येषां ते सारवादाः, सारवादैः स्तुताः सारवादस्तुताः, यद्वा सारश्चासौ वादश्च सारवादः-शास्त्रं, सारवादेन स्तुताः सारवादस्तुताः, तेभ्यः सारवादस्तुतेभ्यः / समधिगता नुतिर्यस्ते समधिगतनुतयः, तेभ्यः समधिगतनुतिभ्यः / देवानां वृन्दं देववृन्दं, तस्माद् देववृन्दात् / अतिशयेन गुरुर्गरीयान्, गरीयांसो नया येषां ते गरीयोनयाः, गरीयोनयाश्च ते नराश्च गरीयोनयनराः, वरं ददतीति वरदाः, गरीयोनयनराणां वरदा गरीयोनयनरवरदाः, तेभ्यः गरीयोनयनरवरदेभ्यः / आरवैः सहितं सारवं, तस्मात् सारवात् / / इति द्वितीयवृत्तार्थः / / 66 / / (4) दे० व्या०-सकलेति / सकलजिनपतिभ्यः नमः-नमस्कारः अस्तु-भवतु इति संबन्धः / अस भुवि' धातुः / अस्तु' इति क्रियापदम् / कः कर्ता ? / (नमः-) नमस्कारः' / केभ्यः ? / 'सकलजिनपतिभ्यः' सकलाः-समस्ता ये जिनाः-सामान्यकेवलिनः तेषां पतयः-स्वामिनः तेभ्यः, तीर्थप्रवर्तकत्वेन तेषां पतित्वमत्रावसेयम् / किंविशिष्टेभ्यः सकलजिनपतिभ्यः ? / 'पावनेभ्यः'-पवित्रेभ्यः / “पवित्रं पावनं पूतं" 1. 'नयनरवरदं' इति प्रतिभाति / 2. 'गुरवो गरीयांसः' इति प्रतिभाति /