________________ श्रीकुन्थुजिनस्तुतयः 271 अथ समासः-जिनानां जिनेषु वा पतयो जिनप० 'तत्पुरुषः' / सकलाश्च ते जिनपतयश्च सकल० 'कर्मधारयः' / तेभ्यः सकल० / नयने च रवश्च रदाश्च नयन० 'इतरेतरद्वन्द्वः' / सन्तो नयनरवरदा येषां ते सन्नयन० ‘बहुव्रीहिः' / तेभ्यः सन्नयन० / सारो वादो येषां ते सारवादाः ‘बहुव्रीहिः' / सारवादैः स्तुताः सार० 'तत्पुरुषः' / तेभ्यः सार० / यदि वा सारश्चासौ वादश्च सारवादः ‘कर्मधारयः' / सारवादेन स्तुताः सार० 'तत्पुरुषः' / तेभ्यः सार० / समधिगता नुतिर्येस्ते सम० ‘बहुव्रीहिः' / तेभ्यः सम० / देवानां वृन्दं देववृन्दं तत्पुरुषः' / तस्माद् देववृन्दात् / गरीयांसो नया येषां ते गरीयोनयाः ‘बहुव्रीहिः' / गरीयोनयाश्च ते नराश्च गरीयो० 'कर्मधारयः' / वरं ददतीति वरदाः 'तत्पुरुषः' / गरीयोनयनराणां वरदाः गरीयो० 'तत्पुरुषः' / तेभ्यो गरीयो० / सह आरवेण वर्तते यत् तत् सारवम् ‘तत्पुरुषः(?)' / तस्मात् सारवात् / / इति काव्यार्थः / / 66 / / - सि० वृ०-सकलेति / तेभ्यः सकलजिनपतिभ्यः-समस्ततीर्थकरेभ्यः नमोऽस्तु / ‘अस्तु' इति क्रियापदमध्याहियते / किं कर्तृ ? / 'नमः' / केभ्यः ? | 'सकलजिनपतिभ्यः' सकलाश्च ते जिनपतयश्च सकलजिनपतयस्तेभ्यः / कथंभूतेभ्यः ? / 'तेभ्यः'-प्रसिद्धेभ्यः / तच्छब्दोऽत्र प्रसिद्धार्थवाचकः, तेन यच्छब्दस्यानापेक्षतेति मन्तव्यम् / यदाह-“प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते" इति / पुनः कथंभूतेभ्यः ? / 'पावनेभ्यः'-पवित्रेभ्यः / पुनः कथंभूतेभ्यः ? 'सन्नयनरवरदेभ्यः' नयनेलोचने रवः-शब्दः रदा-दन्ताः, नयने च रवश्च रदाश्च नयनरवरदं ‘इतरेतरद्वन्द्वः' 'प्राण्यङ्गतूर्यसेनाङ्गानाम्' इति एकवद्भावः, सत्-शोभनं नयनरवरदं येषां ते तथा तेभ्यः / इन्दीवरश्रीतिरस्कारित्वेन नयनयोः स्निग्धगंभीरघोषत्वेन योजनगामित्वेन च रवस्य हीरकादिन्यक्कारित्वेन च रदानां शोभनत्वं स्वयं ज्ञातव्यम् / पुनः कथंभूतेभ्यः ? | ‘सारवादस्तुतेभ्यः' सारः-अर्थप्रधानो वादः-उक्तिर्येषां ते तैः स्तुतेभ्यः-स्तोत्रीकृतेभ्यः वन्वितेभ्यो वा / पुनः कथंभूतेभ्यः ? / 'समधिगतनुतिभ्यः' समधिगता-प्राप्ता नुतिः-प्रणामो यैस्ते तथा तेभ्यः / कस्मात् ? 'देववृन्दात्'-सुरसमूहात् / “स्त्रियां तु संहतिवृन्दं निकुरम्वं कदम्बकं” इत्यमरः (श्लो० 1068) / कथंभूताद् देववृन्दात् ? / 'सारवात्' आरवेण-शब्देन सह वर्तमानात्, स्तुतिपरादित्यर्थः / पुनः कथंभूतेभ्यः सकलंजिनपतिभ्यः ? / 'गरीयोनयनरवरदेभ्यः' अतिशयेन गुरवो-गरीयांसो नया येषु ते गरिष्ठनीतयो ये नरा-मानवाः तेषां वरं ददति ते वरदास्तेभ्यः / “देवाद् वृते वरः श्रेष्ठे, त्रिषु क्लीबं मनाक् प्रिये” इत्यमरः (श्लो० 2681) / 'ईयस्विष्टौ (डिताविति वक्तव्यौ)' (सा० सू० 654) इति ईयसुस् / 'गुर्वादेरिष्ठेमेयस्सु (गरादिष्ट्यलोपश्च)' (सा० सू० 656) इति गुरोर्गरादेशः ष्ट्यलोपश्च / / 66 / / 1. 'सत् नयनरवरदं' इति प्रतिभाति / 2. नत्वयमितरेतरः परं समाहारद्वन्द्वः / 3. 'प्राणितूर्याङ्गानाम्' इति सिद्धहैमे (अ० 3, पा० 1, सू० 137) /