________________ 270 शोभनस्तुति-वृत्तिमाला अवचूरिः तस्मै श्रीकुन्थुनाथाय जिनाय नमोऽस्तु / अमितः शमितो मोहस्यायामितापो-दीर्घदवथुर्येन तस्मै / यः स्वामी हृद्यो-हृदयहारी / संपूर्णभरतक्षेत्राधिपः-चक्रवर्ती / जिनोऽप्यभूत् / किंभूतः ? / अमितानपायान् हरतीति तस्मै / किंभूताय ? / अक्षपाशा-इन्द्रियरज्जवस्तैरयमिता-अबद्धा ये शमिनो-मुनयस्तेषां तमोहाय-अज्ञानघातिने / / 65 / / सकलतीर्थपतिभ्यः प्रणति:सकलजिनपतिभ्यः पावनेभ्यो नमः सन् नयनरवरदेभ्यः सास्वादस्तुतेभ्यः / समधिगतनुतिभ्यो देववृन्दाद् गरीयो नयनरवरदेभ्यः सारवादस्तु तेभ्यः // 2 // 66 // __- मालिनी ज० वि०-सकलेति / तेभ्यः सकलजिनपतिभ्यः-समस्ततीर्थकरेभ्यः नमः अस्तु इति क्रियाकारकान्वयः / अत्र ‘अस्तु' इति क्रियापदम् / किं कर्तृ ? 'नमः' / केभ्यः ? 'सकलजिनपतिभ्यः' / कथंभूतेभ्यः ? 'तेभ्यः' प्रसिद्धेभ्यः / अयं तच्छब्दः प्रसिद्धार्थवाचकत्वाद् यच्छब्दं नापेक्षते / यदुक्तम्“प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यदुपादानं नापेक्षते” इति / पुनः कथंभूतेभ्यः ? ‘पावनेभ्यः' पवित्रताजनकेभ्यः / पुनः कथं० ? 'सन्नयनरवरदेभ्यः' नयने-लोचने रवः-शब्द: रदा-दन्ताः, सन्तःशोभना नयनरवरदा येषां ते तथा तेभ्यः / पुनः कथं० ? 'सारवादस्तुतेभ्यः' सारः-अर्थप्रधानः वाद:उक्तिर्येषां तैः स्तुतेभ्यः-वन्दितेभ्यः, यदि वा सारेण वादेन कृत्वा स्तुतेभ्यः / पुनः कथं ? 'समाधिगतनुतिभ्यः' समधिगता-प्राप्ता नुतिः-प्रणामो यैस्ते तथा तेभ्यः / कस्मात् ? 'देववृन्दात्' सुरसमूहात् / कथंभूताद् देववृन्दात् ? 'सारवात्' आरवेण-शब्देन सह वर्तमानात्, स्तुतिपरादित्यर्थः / पुनः कथं० सकलजिनपतिभ्यः ? 'गरीयोनयनरवरदेभ्यः' गरीयोनयाः-गरिष्ठनीतयो ये नरा-मानवाः तेषां वरदेभ्यः-प्रार्थितार्थप्रदेभ्यः / /