________________ श्रीकुन्थुजिनस्तुतयः 269 मितापाय / सकलं च तद् भरतं च सकलभरतं, सकलभरतस्य भर्ता सकलभरतभर्ता / रागादीन् शत्रून् जयतीति जिनः / अक्षाण्येव पाशाः अक्षपाशाः, न यमिता अयमिताः, अक्षपाशैरयमिता अक्षपाशायमिताः, अक्षपाशायमिताश्च शमिनश्च अक्षपाशायमितशमिनः, अक्षपाशायमितशमिनां तमांसि अक्षपाशायमितशमितमांसि, तानि हन्तीति अक्षपाशायमितशमितमोहः, तस्मै अक्षपाशायमितशमितमोहाय / न मित अमितः, अमितश्चासौ अपायश्च अमितापायः, अमितापायं हरतीति अमितापायहृत् / / मालिनीच्छन्दसा स्तुतिरियम् / / इति प्रथमवृत्तार्थः / / 65 / / . (4) दे० व्या०-भवत्विति / तस्मै (श्री)कुन्थुनाथाय मम नमः-नमस्कारो भवतु इत्यन्वयः / 'भू सत्तायाम्' धातुः / भवतु' इति क्रियापदम् / कः कर्ता ? / 'नमः' / कस्मै ? / '(श्री)कुन्थुनाथाय' | कस्य ? 'मम' / किंविशिष्टाय श्रीकुन्थुनाथाय ? / 'अमितशमितमोहायामितापाय' अमितः-अप्रमाणः शमितो-विनाशं नीतः मोहस्य आयामितापः-आनाहसन्तापो येन स तस्मै / “दैर्घ्य आयाम आनाहः” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 67) / यत्तदोर्नित्याभिसम्बन्धाद् यः कुन्थुनाथः सकलभरतभर्ताऽपि जिनः-तीर्थङ्करः अभूद्-आसीदित्यन्वयः / 'भू सत्तायाम्' धातुः / ‘अभूत्' इति क्रियापदम् / कः कर्ता ? / कुन्थुनाथो 'जिनः' रागादिजेतृत्वात् जिनः / पुनः किंविशिष्ट: ? | 'सकलभरतभर्ता' सकलं-समग्रं यद् भरतक्षेत्रं तस्य भर्ता-प्रभुः / अपिशब्दो विरोधाभासालङ्काराय / पुनः किंविशिष्टः ? / 'हृद्यः'-प्रियः / कस्मै ? 'अक्षपाशायमितशमितमोहाय' अक्षाणि-इन्द्रियाणि तेषां पाशैःबन्धनैः अयमिता-अवद्धाः ते च ते शमितमोहाश्चेति विग्रहः तस्मै / “पाशस्तु बन्धनग्रन्थिः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 595) / पुनः किंविशिष्टः ? / 'अमितापायहृत्' अमितान्'अप्रमाणान् अपायान्-कष्टान् हरतीति अमितापायहृत् / / इति प्रथमवृत्तार्थः / / 65 / / ध० टीका-भवत्विति / भवतु' अस्तु / ‘मम नमः' मत्सम्बन्धी नमस्कारः / श्रीकुन्थुनाथाय' श्रीकुन्थुनाम्ने नाथाय / 'तस्मै' / 'अमितशमितमोहायामितापाय' अमितः-अपरिगतः शमितः-शमं नीतो मोहायामितापः-मोहनीयदीर्घदवथुर्येन तस्मै / 'हृद्यः' हृदयहारी / 'सकलभरतभर्ता' समस्तभरतवर्षाधिपः चक्रवर्तीत्यर्थः / 'अभूत्' संवृत्तः / 'जिनोऽपि' जिनश्च / अपिशब्द: समुच्चयार्थः / ‘अक्षपाशायमितशमितमोहाय' अक्षपाशैः-इन्द्रियरज्जुभिः अयमिता-अबद्धा ये शमिनः-मुनयस्तेषां तमोहाय-अज्ञानघातिने / 'अमितापायहृद्' अमितान् अपायान् हरति यः सः / तस्मै श्रीकुन्थुनाथाय मम नमो भवतु यः सकलभरतभर्ता जिनोऽपि अभूदिति सम्बन्धः / / 65 / /