________________ 268 शोभनस्तुति-वृत्तिमाला सू० 724), 'दिबादावट्' (सा० सू० 707), अभू सद् इति स्थिते 'दादे: पे' (सा० सू० 725) इति सेर्लोपः / अत्र ‘अभूत्' इति क्रियापदम् / कः कर्ता ? / यः सकलभरतभर्ता सकलं-समग्रं षट्खण्डलक्षणं यद् भरतं-भरतक्षेत्रं तस्य भर्ता-स्वामी धारको वा / “भर्ता स्वामिनि धारक” इति विश्वः / पुनः कथंभूतः ? यो जिनो हृद्यः-मनोहरः / पुनः कथंभूतः ? / 'अमितापायहृत्' अमितान्-अपरिमितान् अपायान्-कष्टान् हरतीत्यमितापायहृत् / / 65 / / ___ सौ० वृ०-यः शान्तिकृद् भवति स कौ-पृथिव्यां स्थावरजङ्गमप्राणिनां रक्षको भवति / अनेन सम्बन्धेनायातस्य श्रीकुन्थुनामसप्तदशजिनस्य स्तुतिव्याख्यानं व्यक्तीकरोमि-भवत्विति / तस्मै श्रीकुन्थुनाथाय मम नमः भवतु इत्यन्वयः / भवतु' इति क्रियापदम् / किं कर्तृ ? / 'नमः' प्रणामः / भवतु' अस्तु / कस्य ? 'मम' मत्सम्बन्धी / कस्मै ? | श्रीशब्द: पूज्यार्थे 'श्रीकुन्थुनाथाय' कुन्थुनाथस्वामिने / किंविशिष्टाय श्रीकुन्थुनाथाय ? / अमितः-अपरिमितः शमितः-शमं नीतः तादृशो यो मोहो-मोहनीयकं कर्म तस्य आयामी-दीर्घविस्तारी तापो-दवथुर्येन स (तस्मै) 'अमितशमितमोहायामितापाय' / पुनः किंविशिष्टाय श्रीकुन्थुनाथाय ? / 'तस्मै' प्रसिद्धाय / प्रक्रान्तप्रसिद्धार्थस्तच्छन्दो यच्छब्दमपेक्षते / तस्मै कस्मै ? / यः कुन्थुनाथः सकलं-संपूर्णं यद् भरतं-भरतक्षेत्रं षटखण्डलक्षणं तस्य भर्ता-स्वामी चक्रवर्ती अपि जिनः-तीर्थंकरः अभूदित्यन्वयः / 'अभूत्' इति क्रियापदम् / कः कर्ता ? / यः श्रीकुन्थुनाथः अभूद्-जातः / किंविशिष्टो यः ? / 'जिनः तीर्थंकरः / पुनः किंविशिष्टो यः / 'सकलभरतभर्ता' / अपिशब्द: समुच्चयार्थे / चक्रवर्ती भूत्या जिनो जात इत्यर्थः / पुनः किंविशिष्टो यः / 'हृद्यः' मनोहरः / पुनः किंविशिष्टाय ? / अक्षाणि-इन्द्रियाणि तान्येव पाशा रज्जवः तैरयमिताअसम्बद्धा ये शमिनः-साधवः तेषां तमः-अज्ञानं तत् हन्तीति (स तस्मै) 'अक्षपाशायमितशमितमोहाय' / इदमपि (श्री) कुन्थुनाथायपदस्य विशेषणम् / पुनः किंविशिष्टो यः ? / [आयामिनः-विस्तारिणः] (अमितान्-अपरिमितान्) ये अपाया-विघ्नास्तान् हरतीति ‘आयामि(अमिता)-तापायहृत् / एतादृशाय कुन्थुनाथाय नमः / इति पदार्थः / / अथ समासः-कौ-पृथिव्यां स्वामित्वेन तिष्ठतीति कुन्थुः, कुन्थुश्चासौ नाथश्च कुन्थुनाथः, श्रिया [युक्तः]-चतुस्त्रिंशदतिशयलक्ष्म्या युक्तः कुन्थुनाथः श्रीकुन्थुनाथः, तस्मै श्रीकुन्थुनाथाय / न मितः अमितः, शमं-उपशमं इतः-प्राप्तः शमितः, अमितश्चासौ शमितश्च अमितशमितः, अमितशमितश्चासौ मोहश्च अमितशमितमोहः, आयामः अस्यास्तीति आयामी, आयामी चासौ तापश्च आयामितापः, अमितशमितमोहश्च (?) आयामितापो येन सः अमितशमितमोहायामितापस्तस्मै अमितशमितमोहाया१. अयुक्तोऽयं विग्रहः, 'शमिते' त्यसामासिकम्पदम् /