________________ श्रीकुन्थुजिनस्तुतयः 267 'सकलभरतभर्ता' / पुनः कथं० ? 'जिनः' / कथम् ? 'अपि' / यः कथंभूतः ? 'हृद्यः' मनोहरः / पुनः कथं० ? ‘अमितापायहृत्' अमितान्-अपरिमितान् अपायान् हरतीत्यमितापायहृत् / अथ समासः-कुन्थुश्चासौ नाथश्च कुन्थुनाथः ‘कर्मधारयः' / श्रियोपलक्षितः कुन्थुनाथः श्रीकुन्थु० 'तत्पुरुषः' / तस्मै श्रीकुन्थु० / अमितश्चासौ शमितश्च अमित० 'कर्मधारयः' / आयामी चासौ तापश्च आया० 'कर्मधारयः' / मोहश्चासावायामितापश्च मोहाया० 'कर्मधारयः' / अमितशमितो मोहायामितापो येन सोऽमित० 'वहुवीहिः' / तस्मै अमित० / सकलं च तद्भरतं च सक० 'कर्मधारयः' / सकलभरतस्य भर्ता सक० 'तत्पुरुषः' / अक्षाण्येव पाशाः अक्षपाशाः ‘कर्मधारयः' / न यमिता अयमिताः 'तत्पुरुषः' / अक्षपाशैरयमिता अक्षपा० 'तत्पुरुषः' / अक्षपाशायमिताश्च ते शमिनश्च अक्षपा० 'कर्मधारयः' / तमो हन्तीति तमोह: 'तत्पुरुषः' / अक्षपाशायमितशमिनां तमोहः अक्षपा० 'तत्पुरुषः' / तस्मै अक्षपा० / अमितश्चासावपायश्च अमितापायः ‘कर्मधारयः' / अमितापायं हरतीत्यमितापायहृत् 'तत्पुरुषः' / / इति काव्यार्थः / / 65 / / सि० वृ०-भवत्विति / कुन्थुनाथः कौ-पृथिव्यां स्थितिमान् इति कुन्थुः, “क्षितिः क्षोणिः क्षमाऽनन्ता, ज्या कुर्वसुमतिर्मही” इति हैमः (अभि० का० 4, श्लो० 2), पृषोदरादित्वात् सकारलोपः, गर्भस्थेऽस्मिन् माता विचित्रं कुन्थुरूपं दृष्टवतीति वा कुन्थुः, स चासौ श्रियोपलक्षितो नाथः श्रीकुन्थुनाथः तस्मै मम नमस्कारो भवतु इति संबन्धः / 'भू सत्तायाम्' धातुः अग्रे ‘आशी:प्रेरणयोः' (सा० सू०७०३) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं तुप् / ‘अप् कर्तरि' (सा० सू० 691) इत्यप्, ‘गुणः' (सा० सू० 692), 'ओ अव्' (सा० सू० 42), 'स्वरहीनं०' (सा० सू० 36) / तथा च भवतु' इति सिद्धम् / * अत्र "भवतु' इति क्रियापदम् / किं कर्तृ ? / 'नमः' / कस्मै ? / 'श्रीकुन्थुनाथाय' / कथंभूताय श्रीकुन्थुनाथाय ? / 'अमितशमितमोहायामितापाय' अमितः-अप्रमाणः शमितः-शमं नीतो मोहोमोहनीयं स एव आयामितापो-(दीर्घ)दवथुर्येन स तथा तस्मै / अमितश्चासौ शमितश्च अमितशमितः, आयामी चासौ तापश्च आयामितापः इति कर्मधारयः' / पुनः कथंभूताय ? / अक्षपाशायमितशमितमोहाय' अक्षाण्येव-इन्द्रियाण्येव पाशा-रज्जवः तैः अयमिता-अबद्धा ये शमिनो-मुनयः तेषां तमोहाय अज्ञानघातिने / पुनः कथंभूताय ? / 'तस्मै' / तस्मै कस्मै ? / यः कुन्थुनाथः सकलभरतभर्ता-समस्तभारतस्वामी, चक्रवर्तीत्यर्थः / विभर्ति षटखण्डानीति ‘भरतः' / 'डुभृञ् धारणादौ' भृमृदृशियजिपर्विपच्यमिनमितमिनमिहर्यिभ्योऽतच्' (उणा० सू० 390) तस्य भर्ता जिनोऽपि-तीर्थंकरोऽपि अभूद्-अभवदित्यर्थः / अपिः समुच्चयार्थे / यद्वा अपिशब्दोऽत्र यः सकलभरतभर्ता स कथं जिनः स्यात् इति विरोधसूचकः / 'भू सत्तायाम्' धातोः भूते सौ कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् / इकार उच्चारणार्थः 'भूते सिः' (सा०