________________ 266 शोभनस्तुति-वृत्तिमाला 17. श्रीकुन्थुजिनस्तुतयः अथ श्रीकुन्थुनाथाय वन्दनम्भवतु मम नमः श्रीकुन्थुनाथाय तस्मा- .. यमितशमितमोहायामितापाय हृद्यः / सकलभरतभर्ताऽभूज्जिनोऽप्यक्षपाशायमितशमितमोहायामितापायहृद् यः // 1 // 65 // . __- मालिनी (8, 7) (1) . ज० वि०-भवत्विति / श्रीकुन्थुनाथाय-श्रीकुन्थुनाथनाम्ने जिनाय, श्रीशब्द: प्राग्वत्, मम-मे नमस्कारो भवतु-अस्तु इति क्रियाकारकप्रयोगः / अत्र ‘भवतु' इति क्रियापदम् / किं कर्तृ ? 'नमः' / कस्मै ? श्रीकुन्थुनाथाय' / कस्य ? 'मम' / कथंभूताय श्रीकुन्थुनाथाय ? अमितशमितमोहायामितापाय' अमितः-अपरिमितः शमितः-शमं नीतः मोहः-मोहनीयं (कर्म) स एव आयामितापो-दीर्घदवथुर्येन स तथा तस्मै / पुनः कथं० ? 'अक्षपाशायमितशमितमोहाय' अक्षपाशैः-इन्द्रियरज्जुभिः अयमिता-अबद्धा ये शमिनो-मुनयस्तेषां तमोहाय-अज्ञानघातिने / तस्मै इति तच्छब्दसाहचर्याद् यच्छब्दघटनामाह-यः श्रीकुन्थुनाथः सकलभरतभर्तासकलभारतस्वामी चक्रवर्तीत्यर्थः, जिनोऽपि-तीर्थंकरोऽपि अभूत् / अपिशब्दः समुच्चचार्थः / अत्रापि ‘अभूत्' इति क्रियापदम् / कः कर्ता ? 'यः' / कथंभूतोऽभूत् ?