________________ श्रीशान्तिजिनस्तुतयः 265 अवचूरिः स व्रह्मशान्तिनामा यक्षः शं-सुखं कुरुतात् / किं कुर्वन् ? / दण्डच्छत्रकमण्डलूनि कलयन्-उद्वहन् / किंभूतानि ? / सन्ति-शोभनानि / अज्यानि-अहीनानि / शमी-प्रशमवान् / क्षणेन-वेगेन / मुक्ताक्षमाला अस्यास्तीति / तप्तस्वर्णपिण्डपीतरुचिः / यो यक्षः कस्यापि शमिनो-मुनेरनिशं-निरन्तरमीक्षणेनविलोकनेनाज्ञतां-मूढतां संत्यज्य हितं परिणतिसुखमधारयत् / हितं किंभूतम् ? / मुक्ता अक्षमा यैस्ते मुनयस्तेषामाली-श्रेणिस्तस्या ईहितं-चेष्टितम् / / 4 / 16 / 64 //