________________ 264 शोभनस्तुति-वृत्तिमाला +++++++++++++++++++++++++++ ++ यावत् / कानि ? / 'दण्डच्छत्रकमण्डलूनि' दण्डः-प्रहरणविशेषः छत्रं-आतपत्रं कमण्डलुः-कुण्डिका, एतेषां 'द्वन्द्वः' / तानि किंविशिष्टानि ? / 'सन्ति'-शोभनानि / पुनः किंविशिष्टानि ? / 'अज्यानि' नास्ति ज्या[निः]-जरा येषां तानि, देवताधिष्ठितत्वेन तत्सम्भवात् / यत्तदोर्नित्याभिसम्बन्धाद् यो व्रह्मशान्तिः कस्यापि शमिनः-तपस्विनः ईक्षणेन-विलोकनेन हितं-पथ्यम् अधारय-धारयामासेत्यन्वयः / 'डुधाञ् धारणपोषणयोः' इति धातुः / किं कृत्वा ? / 'संत्यज्य'-परिहत्य / काम् ? | ‘अज्ञतां' अज्ञस्य भावः अज्ञता तां, मूर्खस्य भावतामित्यर्थः / 'भावे तत्वयणः' (सा० सू० 591) इति तप्रत्ययः / किंविशिष्टं हितम् ? / . 'मुक्ताक्षमालीहितम्' मुक्ता-त्यक्ता अक्षमा यैस्ते मुक्ताक्षमा-मुमुक्षवः तेषां आली-परम्परा तस्या ईहितंवाञ्छितं, अक्षमा-क्रोधः / यत् तु किंविशिष्टं शम् ? / 'ईहितं'-चेष्टितम् / किंविशिष्टो यक्षः ? / 'मुक्ताक्षमाली' मुक्ता अक्षमायाः आली-परम्परा येन स तथेति पृथक् पदद्वयमिति कश्चित् तन्न, अर्थानवबोधात् / किंविशिष्टो यक्षः ? / 'शमी' शमोऽस्यास्तीति शमी-उपशमवान् / पुनः किंविशिष्टः ? / 'इनः'स्वामी, सर्वेषां रक्षाकरणत्वात् / पुनः किंविशिष्ट: ? | 'मुक्ताक्षमाली' मुक्तायाः-मुक्ताफलस्य अक्षमालाजपमाला विद्यते यस्यासौ मुक्ताक्षमाली / “शुक्तिजं मौक्तिकं मुक्ता” इत्यभिधानचिन्तामणिः (का०४ ,श्लो० 134) / पुनः किंविशिष्टः ? / 'तप्ताष्टापदपिण्डपिङ्गलरुचिः' तप्तं-द्रुतं यद् अष्टापदं-सुवर्णं तस्य पिण्ड:समुदायः तद्वत् पिङ्गला-कपिला पीतरक्ता इति यावत् रुचिः-कान्तिर्यस्य स तथा / कपिलः पिङ्गल श्यावः” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 32) / इति तुरीयवृत्तार्थः / / 64 / / शार्दूलविक्रीडितच्छन्दः / अस्य भेदकत्वा(त्वमा ?)धस्तुतौ पूर्वमेवोद्दिष्टमिति // 4 / 16 / 64. // ध० टीका-दण्डेति / ‘दण्डच्छत्रकमण्डलूनि' दण्डः-आषाढी व्रतिदण्डः छत्रं-आतपत्रं कमण्डलुः कुण्डिका (तानि) / 'कलयन्' उद्वहन् / 'सः' / 'ब्रह्मशान्तिः' ब्रह्मशान्तिनामा ब्रह्मराक्षसः / ‘क्रियात्' विधेयात् / 'सन्ति' शोभनानि / 'अज्यानि' ज्यानिरहितम् / 'शमी' प्रशमवान् / 'क्षणेन' सपदि / 'शं' सुखम् / ‘इनः' प्रभुः / 'मुक्ताक्षमाली' मौक्तिकाक्षमालावान् / ‘हितं' परिणतिसुखम् / 'तप्ताष्टापदपिण्डपिङ्गलरुचिः' तप्तो योऽष्टापदपिण्ड:-कनकगोलः तद्वत् पिङ्गलरुचिः-कपिलच्छविः / 'यः' / 'अधारयत्' धृतवान् / 'मूढतां' अज्ञताम् / 'संत्यज्य' त्यक्त्वा / 'अनिशं' अनवरतम् / ‘ईक्षणेन' आलोकनेन / 'शमिनः' मुनेः कस्यापि / 'मुक्ताक्षमाली' मुक्ता-त्यक्ता अक्षमायाः-अक्षान्तेः आली-परम्परा येन- सः / 'ईहितं' चेष्टितम् / सन्ति दण्डच्छत्रकमण्डलूनि कलयन् स ब्रह्माशान्तिरज्यानि शं क्षणेन क्रियाद् यः शमिनः अनिशं ईक्षणेन मूढतां संत्यज्य हितं अधारयदिति सम्बन्धः // 4 / 16 / 64. //