________________ श्रीशान्तिजिनस्तुतयः 263 'शमी' उपशमवान् / पुनः किंविशिष्टो ब्रह्मशान्तिः ? / मुक्तानां-मौक्तिकानां अक्षमाला-सानजाप्यमाला अस्यास्तीति ‘मुक्ताक्षमाली' | पुनः कथंभूतो ब्रह्मशान्तिः ? / तप्तं-तापितं यद् अष्टापदं-सुवर्णं तस्य पिण्डो-गोलः तद्वत् पिङ्गला-पीता रुचिः-कान्तिर्यस्य स 'तप्ताष्टापदपिण्डपिङ्गलरुचिः' / पुनः किंविशिष्टो ब्रह्मशान्तिः ? / 'सः' प्रसिद्धः / तच्छब्दो यच्छब्दमपेक्षते / सः कः ? / यो ब्रह्मशान्तिः शमिनः-शमवतः साधोः सज्जनस्य वा अनिशं निरन्तरं ईक्षणेन-विलोकनेन कृत्वा हितं अधारयदित्यन्वयः / अधारयत्' इति क्रियापदम् / कः कर्ता ? / 'यः' ब्रह्मशान्तिः / अधारयत्' अदधत् / किं कर्मतापन्नम् ? | ‘हितं' शुभम् / केन ? / 'ईक्षणेन' / कस्य / 'शमिनः' / कथम् ? / 'अनिशं' निरन्तरम् / किं कृत्वा ? | 'सन्त्यज्य' त्यक्त्वा / कां कर्मतापन्नाम् ? / 'मूढतां' अज्ञानताम् / किंविशिष्टं हितम् ? / मुक्ता-त्यक्ता अक्षमा-कोपो यैस्ते मुक्ताक्षमाः-साधवस्तेषां आली-श्रेणिस्तस्या ईहितं-वाञ्छितं सिद्धिपदं यस्मिन् तत् 'मुक्ताक्षमालीहितम्' / इति पदार्थः / / . अथ समासः-दण्डश्च छत्रं च कमण्डलुश्च दण्डच्छत्रकमण्डलूनि, तानि दण्डच्छत्रकमण्डलूनि / ब्रह्मणा-ज्ञानेन शान्तिः ब्रह्मशान्तिः / ज्या-हानिः, नास्ति ज्या येषु तानि अज्यानि / [सन्ति च तानि अज्यानि च सन्त्यज्यानि] / शमः अस्यास्तीति (शमी) / पुनः ब्रह्मशान्तिः इनः-स्वामी / अक्षाणां माला अक्षमाला, मुक्तानां अक्षमालाऽस्यास्तीति मुक्ताक्षमाली / तप्तं च तद् अष्टापदं च तप्ताष्टापदम्, तप्ताष्टापदस्य पिण्ड: तप्ताष्टापदपिण्डः, तप्ताष्टापदपिण्डवत् पिङ्गला रुचिर्यस्य स तप्ताष्टापदपिण्डपिङ्गलरुचिः / मूढस्य भावो मूढता, तां मूढताम् / शमोऽस्यास्तीति शमी, तस्य शमिनः / न क्षमा अक्षमा, मुक्ता अक्षमा यैस्ते मुक्ताक्षमाः, मुक्ताक्षमानां आली मुक्ताक्षमाली, मुक्ताक्षमाल्या ईहितं यस्मिन् तत् . मुक्ताक्षमालीहितम् / / इति चतुर्थवृत्तार्थः / / 64 / / श्रीमच्छन्तिजिनेशस्य, स्तुतेरथों लिपीकृतः / 'सौभाग्यसागराख्येण, सूरिणा ज्ञानधारिणा // 1 // // इति षोडशजिनशान्तिनाथस्य स्तुतेरों लिपीकृतः // 4 / 16 / 64 // (4) दे० व्या०-दण्डच्छत्रेति / स ब्रह्मशान्तिर्यक्षः क्षणेन-वेगेन यथा भवति तथा शं-सुखं क्रियात्-कुर्यादित्यन्वयः / 'डुकृञ् करणे' धातुः / ‘क्रियात्' इति क्रियापदम् / कः कर्ता ? | स 'ब्रह्मशान्तिः' / किं कर्मतापन्नम् ? / 'शम् ' / कथम् ? / 'क्षणेन' / अव्ययमेतत् / “सहसैकपदे सद्योऽकस्मात् सपदि तत्क्षणे” इत्यभिधानचिन्तामणिः (का० 6, श्लो० 168) / किं कुर्वन् यक्षः ? / 'कलयन्'-उद्वहन्, धारयन्निति