________________ 262 शोभनस्तुति-वृत्तिमाला कथम् ? / 'क्षणेन'-सपदि / ब्रह्मशान्तिः किं कुर्वन् ? / कलयतीति ‘कलयन्' धारयन् / कानि ? / ‘दण्डच्छत्रकमण्डलूनि' दण्डो-दण्डः छत्रं-आतपत्रं कमण्डलु:-कुण्डिका तानि / दण्डश्च छत्रं च कमण्डलुश्च दण्डच्छत्रकमण्डलूनि ‘इतरेतरद्वन्द्वः' / कथंभूतानि ? / 'सन्ति'-शोभनानि / पुनः कथंभूतानि ? | . अज्यानि-अहीनानि / ब्रह्मशान्तिः कथंभूतः ? 'शमी' शमः-उपशमः सोऽस्यास्तीति शमी, प्रशमवानित्यर्थः / पुनः कथंभूतः ? / ‘इनः'-प्रभुः, कतिपयदेवदेवाङ्गनानां प्रभुत्वात् / “इनः सूर्ये प्रभौ राजा” इत्यमरः (श्लो० 2557) / पुनः कथंभूतः ? / 'मुक्ताक्षमाली' मुक्तानां-मुक्ताफलानां अक्षमाला-जपमालिका सा अस्यास्तीति मुक्ताक्षमाली / पुनः कथंभूतः ? / 'तप्ताष्टापदपिण्डपिङ्गलरुचिः' तप्तं-द्रुतं यद् अष्टापदंसुवर्णं तस्य पिण्डो-गोलकः तद्वत् पिङ्गला-पीतरक्ता रुचिः-कान्तिः यस्य स तथा / “पीतरक्तस्तु पिञ्जरः / कपिलः पिङ्गलः श्यावः” (अभि० का० 6, श्लो० 32), “पिङ्गलः स्वर्णवर्णवत्” इति तु शब्दार्णवः / तथा च सितपीतहरिद्रक्तः पिङ्गल इत्यर्थः / स इति स कः ? / यो ब्रह्मशान्तिः शमिनः-कस्यापि मुनेर्हितंपरिणतिसुखं अहर्निशं-निरन्तरं ईक्षणेन-विलोकनेन कृत्वा अधारयद्-धारयामासेत्यर्थः / 'धृञ् धारणे' धातोरनद्यतने अतीते कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं दिप् / 'दिबादावट' (सा० सू० 707), 'चुरादेः' . (सा० सू० 1031) इति ञिः, 'गुणः' (सा० सू० 692) इति गुणः, ‘ए अय्' (सा० सू० 41),. 'स्वरहीनम्०' (सा० सू० 36) / (तथा च) अधारयत्' इति सिद्धम् / अत्र ‘अधारयत्' इति क्रियापदम् / कः कर्ता ? | 'यः' / किं कर्मतापन्नम् ? | ‘हितम्' / कस्य ? / 'शमिनः' शमोऽस्यास्तीति शमी तस्य शमिनः / केन कृत्वा ? | ‘ईक्षणेन' / कथम् ? / 'अनिशम्' / कीदृशं हितम् ? | 'मुक्ताक्षमालीहितं' मुक्ता अक्षमाक्षमारहिता (?) यैस्ते तथा अर्थात् साधवस्तेषां आली-पङ्क्तिः तस्या ईहितं-चेष्टितम् / किं कृत्वा ? / 'संत्यज्य'-त्यक्त्वा | काम् ? / मूढस्य भावो मूढता तां मूढतां, अज्ञतामित्यर्थः / / 64 / / शार्दूलविक्रीडितं छन्दः / तल्लक्षणं तु प्रथमस्तुतौ पूर्वमेवोक्तम् / / // इति महामहोपाध्यायश्रीभानुचन्द्रगणि० श्रीशान्तिनाथस्य स्तुतिवृत्तिः // 4 / 16 / 64 // सौ० वृ०-दण्डच्छत्रेति / स ब्रह्मशान्ति मा यक्षः शं-सुखं क्षणेन-वेगेन क्रियादित्यन्वयः / ‘क्रियात्' इति क्रियापदम् / कः कर्ता ? 'ब्रह्मशान्तिः' / 'क्रियात्' कुर्यात् / किं कर्मतापन्नम् ? / 'शं' सुखम् / “शं सुखे बलवति (?) सुष्ठु” इति हैमः (का० 6, श्लो० 171) / ब्रह्मशान्तिः किं कुर्वन् ? / 'कलयन्' / कानि कर्मतापन्नानि ? / दण्डो-यष्टिः छत्रे-आतपवारणं कमण्डलुः-कुण्डिका तानि ‘दण्डच्छत्रकमण्डलूनि' / कथंभूतानि दण्डच्छत्रकमण्डलूनि ? / 'सन्ति' शोभनानि, विद्यमानानि वा / अत एव ज्या-हानिः सा न विद्यते येषु तानि ‘अज्यानि', शाश्वतानीत्यर्थः / किंविशिष्टो ब्रह्मशान्तिः ? / 1. अघटितेयं व्याख्या, साधवस्तु क्षमापवित्रिताः सन्ति न तु क्षमारहिता अत एवं व्याख्या भवतु - तत्सदृशार्थेऽत्र नञ् तत्पुरुषः प्रयुक्तस्तस्मात् 'अक्षमा' क्षमान्चीताः /