________________ श्रीशान्तिजिनस्तुतयः ज० व०-दण्डच्छत्रेति / स ब्रह्मशान्तिः-ब्रह्मशान्तिनामा यक्षः शं-सुखं क्रियाद्-विधेयादिति क्रियाकारकसण्टङ्कः / अत्र ‘क्रियात्' इति क्रियापदम् / कः कर्ता ? 'ब्रह्मशान्तिः' / किं कर्मतापन्नम् ? 'शम्' / कथम् ? 'क्षणेन' सपदि / ब्रह्मशान्तिः किं कुर्वन् ? 'कलयन्' / कानि कर्मतापन्नानि ? 'दण्डच्छत्रकमण्डलूनि' दण्डो-यष्टिः छत्रं-आतपत्रं कमण्डलुः-कुण्डिका तानि / (दण्ड०) कथंभूतानि ? 'सन्ति' शोभनानि / पुनः कथंभूतानि ? 'अज्यानि' अहीनानि / ब्रह्मशान्तिः कथंभूतः ? ‘इनः' प्रभुः / पुनः कथंभूतः ? 'मुक्ताक्षमाली' मुक्ताक्षमालावान् / पुनः कथं० ? 'तप्ताष्टापदपिण्डपिङ्गलरुचिः' तप्तःउत्तप्तः यः अष्टापदपिण्ड:-कनकगोलः तद्वत् पिङ्गलरुचिः-कपिलच्छविः / पुनः किंविशिष्टः ? 'शमी' शमवान् / स इति तच्छब्दसाहचर्याद् यच्छब्दघटनामाह-यो ब्रह्मशान्तिः शमिनः-मुनेः कस्यापि हितंपरिणामसुखं 'मुक्ताक्षमालीहितं” मुक्ता अक्षमा यैस्ते तथा (अर्थात्) साधवस्तेषामाली-श्रेणी तस्या ईहितंचेष्टितं हितं-परिणामसुखम् अधारयद्-धृतवान् / अत्रापि 'अधारयत्' इति क्रियापदम् / कः कर्ता ? 'यः' / किं कर्मतापन्नम् ? 'हितम्' / हितं कथंभूतम् ? 'मुक्ताक्षमालीहितम्' / केन कृत्वा ? 'ईक्षणेन' विलोकनेन / कथम् ? ‘अनिशम्' अनवरतम् / किं कृत्वा ? 'संत्यज्य' त्यक्त्वा / कां कर्मतापन्नाम् ? 'मूढताम्' अज्ञताम् / / - अथ समासः-दण्डश्च छत्रं च कमण्डलुश्च दण्डच्छत्रकमण्डलूनि ‘इतरेतरद्वन्द्वः' / तानि दण्ड० / मुक्तानामक्षमाला मुक्ताक्षमाला 'तत्पुरुषः' / मुक्ताक्षमालाऽस्यास्तीति मुक्ता० / अष्टापदस्य पिण्डोऽष्टापदपिण्डः 'तत्पुरुषः' / तप्तश्चासावष्टापदपिण्डश्च तप्ताष्टा० 'कर्मधारयः' / तप्ताष्टापदपिण्डवत् पिङ्गला तप्ताप्ता० 'तत्पुरुषः' / तप्ताष्टापदपिण्डपिङ्गला रुचिर्यस्य स तप्ताष्टा० 'बहुव्रीहिः' / न क्षमा अक्षमा ‘तत्पुरुषः' / मुक्ता अक्षमा यैस्ते मुक्ताक्षमाः ‘बहुव्रीहिः' / मुक्ताक्षमाणामाली मुक्ताक्षमाली 'तत्पुरुषः' / मुक्ताक्षमाल्या ईहितं मुक्ताक्ष० 'तत्पुरुषः' / तद् मुक्ता० / / इति काव्यार्थः // 64 // // इति श्रीशोभनस्तुतिवृत्तौ श्रीशान्तिनाथस्य स्तुतेर्व्याख्या // 4 / 16 / 64 // (2) सि० वृ०-दण्डच्छत्रेति / स ब्रह्मशान्तिः-ब्रह्मशान्तिनामा यक्षः शं-सुखं क्रियाद्-विधेयादि -त्यर्थः / ‘डुकृञ् करणे' धातोः आशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / क्रियानिष्पत्तिप्रकारस्तु पूर्वमेवोक्तः / अत्र ‘क्रियात्' इति क्रियापदम् / कः कर्ता ? / 'ब्रह्मशान्तिः' / किं कर्मतापन्नम् ? / 'शम्' /