________________ 260 शोभनस्तुति-वृत्तिमाला पर्युल्लसल्लीलाः, “लीला विलासो विच्छित्तिः” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 171), ते च ते अभङ्गमहारयः-अजेयशत्रवः तान् भिनत्ति विदारयतीति तत् / अभङ्गाश्च ते महारयश्चेति पूर्व 'कर्मधारयः' / पुनः किंविशिष्टम् ? / 'दुर्निर्भेदनिरन्तरान्तरतमोनि शि' / पुनः किंविशिष्टम् ? / . 'नमदनन्तापापहृद्यामरम्' नमन्तः-प्रणामं कुर्वन्तः अपापाः-पापरहिताः अनन्ता-असंख्याता हृद्या-मनोहरा अमरा-देवा यस्य तत् / / इति तृतीयवृत्तार्थः / / 63 / / ध० टीका-जैनेन्द्रमिति / ‘जैनेन्द्र' जिनेन्द्रसम्बन्धि / 'मत' दर्शनम् / ‘आतनोतु' प्रथयतु / 'सततम्' अजस्रम् / 'सम्यग्दृशाम्' अविपरीतबुद्धीनाम् / ‘सद्गुणालीलाभम्' साधुगुणावलीप्राप्तिम् / 'गमहारि' गमैर्मनोहरम् / 'भिन्नमदनम्' विदारितस्मरम् / 'तापापहृत्' तापं अपहरति यत् तत् / ‘यामरम्' यामाः-यमाः तान् राति-ददाति यत् तत् / 'दुर्निर्भेदनिरन्तरान्तरतमोनि शि' दुर्भेदं-दुःखभेद्यम्, निरन्तरंनिर्विवरं, आन्तरं-मनोऽन्तर्भवं, तमः-मोहं निर्नाशयत्येवंशीलं यत् तत् / ‘पर्युल्लसल्लीलाभङ्गमहारिभित्' पर्युल्लसल्लीलान्-प्रोद्यद्विलासान् अभङ्गान्-अजेयान् महारीन्-महाप्रतिपक्षान् भिनत्ति यत् तत् / 'नमदनन्तापापहृद्यामरम्' नमन्तोऽनन्ताः अपापाः-हृद्याः अमरा यस्य तत् / / 63 / / अवचूरिः जैनेन्द्रं-जिनेन्द्रप्रोक्तं मतं सद्गुणश्रेणिलाभं सम्यग्दृष्टीनां वितनोतु / किंविशिष्टम् ? / गमाःसदृशपाठास्तैर्हारि-मनोहरम् / भिन्नो-विदीर्णो मदनः-अनङ्गो येन / तापं-संसारभ्रमणजमपहरतीति / यमानि-व्रतानि रातीति / दुर्निर्भेदं-दुःखभेद्यं निरन्तरं-निर्विवरम् अन्तरम्-अन्तर्भवं तमो-मोहं निर्नाशयतीत्येवंशीलम् / पर्युल्लसल्लीलान् प्रोद्यद्विलासान् अभङ्गान्-अजेयान् महारीन्-महावैरिणो भिनत्तीति / नमन्तोऽनन्ता-अप्रमाणाः अपापहृद्या अमरा यस्य / / 63 / / श्रीब्रह्मशान्तियक्षस्य स्तुतिः दण्डच्छत्रकमण्डलूनि कलयन् स ब्रह्मशान्तिः क्रियात् ___ सन्त्यज्यानि शमी क्षणेन शमिनो मुक्ताक्षमाली हितम् / तप्ताष्टापदपिण्डपिङ्गलरुचिोऽधारयन्मूढतां संत्यज्यानिशमीक्षणेन शमिनो मुक्ताक्षमालीहितम् // 4 // 64. // -- शार्दूल०