________________ श्रीशान्तिजिनस्तुतयः 259 तापं अपहरतीति तापापहृत् / यामं राति-ददातीति यामरम् / दुःखेन निरन्तरं भेदा यस्य तद् दुर्निर्भेदम्, अन्तरे भवं आन्तरं, आन्तरं च तत् तमश्च आन्तरतमः, निरन्तरं च आन्तरतमश्च निरन्तरान्तरतमः, दुर्निर्भेदं च तद् निरन्तरान्तरतमश्च दुर्निर्भदनिरन्तरान्तरतमः, दुनिर्भनिरन्तरान्तरतमो निर्-निश्चितं नाशयतीति दुर्निर्भदनिरन्तरान्तरतमोनिर्नाशि | पर्युलसन्ती चासौ लीला च पर्युल्लसल्लीला, पर्युल्लसल्लीला भङ्गा येषां ते पर्युल्लसल्लीलाभङ्गाः, महान्तश्च ते अरयश्च महारयः, पर्युलसल्लीलाभङ्गाश्च ते महारयश्च पर्युलसल्लीलाभङ्गमहारयः, पर्युल्लसल्लीलाभङ्गमहारीन् भिनत्तीति पर्युल्लसल्लीलाभङ्गमहारिभित् / नमन्तश्च ते अनन्ताश्च नमदनन्ताः, नास्ति पापं येषां ते अपापाः, नमदनन्ताश्च ते अपापाश्च नमदनन्तापापाः, हृद्याश्च ते अमराश्च हृद्यामराः, (नमदन्तापापाश्च हृद्यामराश्च नमद०) नमदनन्तापापहृद्यामरा यस्मिन् तद् नमदनन्तापापहृद्यामरं-प्रणमदनेकनिष्पापमनोज्ञदेववृन्दवन्द्यम् / तादृशं प्रवचनं बोधिलाभमातनोतु / / इति तृतीयवृत्तार्थः / / 63 / / (4) दे० वृ०-जैनेन्द्रमिति / जिनेन्द्रस्य इदं जैनेन्द्र मतं-प्रवचनं सम्यग्दृशां सततं-निरन्तरं यथा स्यात् तथा सद्गुणालीलाभं आतनोतु-विस्तारयतु इत्यन्वयः / 'तनुः विस्तारे' धातुः / ‘आतनोतु' इति क्रियापदम् / किं कर्तृ ? / 'मतम्' / कं कर्मतापन्नम् ? / 'सद्गुणालीलाभं' सती-शोभना या गुणालीगुणपरम्परा तस्या लाभो-लब्धिस्तम् / केषाम् ? / सम्यग्दृशां-सम्यग्दृष्टीनाम् / तदुक्तम्• “या देवे देवताबुद्धि-गुरौ च गुरुतामतिः / धर्म च धर्मधीः शुद्धा, सम्यक्त्वमिदमुच्यते // " इति योगशास्त्रे (प्र० 2, श्लो० 2) / तथा"जीवाइनवपयत्थे जो जाणइ तस्स होइ सम्मत्तं / भावेण सहतो अयाणमाणेवि सम्मत्तं // " इति नवतत्त्वग्रन्थे / किंविशिष्टं मतम् ? | ‘गमहारि' गमाः-सदृशपाठाः तैः हरतीत्येवंशीलं गमहारि / पुनः किंविशिष्टम् ? / 'भिन्नमदनं' भिन्नः-पाटितो मदनः-कन्दर्पो येन तत्, तदुच्छेदपरत्वेनास्य सिद्धत्वात् / पुनः किंविशिष्टम् ? / 'तापापहृत्' तापः-संसारखेद: तं अपहरतीति तापापहृत् / पुनः 'किंविशिष्टम् ? / ‘यामरं' यामा-महाव्रतानि तान् राति-दत्ते इति यामरम् / पुनः किंविशिष्टम् ? / 'पर्युलसल्लीलाभङ्गमहारिभित्' परि-सामस्त्येन उल्लसन्त्यः-उल्लासं प्राप्नुवन्त्यः लीला-विलासा येषां ते 1. जीवादिनवपदार्थान् यो जानाति तस्य भवति सम्यक्त्वम् / भावेन श्रद्दधानस्य अजानानस्यापि सम्यक्त्वम् / /