________________ 258 शोभनस्तुति-वृत्तिमाला राति-ददातीति यामरम् / पुनः कथंभूतम् ? / 'दुनिर्भेदनिरन्तरन्तरतमोनि शि' दुर्निर्भदं-दुःखेन दूरीकर्तुं शक्यं तन्निरन्तरं-निर्विवरं आन्तरं-अन्तर्भवं एतादृशं यत् तमः-अज्ञानं तन्निर्नाशयतीत्येवंशीलम् | दुर्निर्भेदं च निरन्तरं च दुर्निर्भेदनिरन्तरं इति ‘कर्मधारयः', आन्तरं च तत् तमश्चान्तरतमः ‘कर्मधारयः', दुर्निर्भेदनिरन्तरंचतद्आन्तरतमश्च दुर्निर्भेदनिरन्तरान्तरतमः, दुर्निर्भेदनिरन्तरान्तरतमो निर्नाशयतीत्येवंशीलं दुर्निर्भेदनिरन्तरान्तरतमोनिर्नाशि, सर्वत्र ‘कर्मधारयः' / पुनः कथंभूतम् ? / 'पर्युलसल्लीलाभङ्गमहारिभित्' पर्युल्लसन्ती लीला येषां ते पर्युल्लसल्लीलाः, न विद्यते भङ्गः-पराजयो येषां ते अभङ्गाः, महान्तः-प्रकृष्टाश्च ते अरयश्च महारयः, ततः पर्युलसल्लीलाश्च ते अभङ्गाश्च ते महारयश्च ते तथा तान् भिनत्तीत्येवंशीलम् / पुनः कथंभूतम् ? / 'नमदनन्तापापहृद्यामरं' नमन्तः-प्रणामं कुर्वन्तः अनन्ताः-अपरिमिताः (अपापाःगतपापाः) ते च ते हृद्याः-मनोज्ञाः अमरा-देवाः यस्य तत् / / 63 / / (3). ___ सौ० वृ०-जैनेन्द्रमिति / जैनन्द्रं मतं-तीर्थकरप्रवचनं सम्यग्दृशां-सम्यग्दृष्टीनां सततं-निरन्तरं 'सद्गुणालीलाभं' सन्तः-शोभना ये गुणाः-क्षमामार्दवार्जवादयः तेषामाली-श्रेणिः तस्या लाभः-प्राप्तिः तं [सद्गुणालीलाभं] आतनोत्वित्यन्वयः / ‘आतनोतु' इति क्रियापदम् / किं कर्तृ ? / 'मतं' प्रवचनम् / 'आतनोतु' विस्तारयतु / कं कर्मतापन्नम् ? / 'सद्गुणालीलाभम्' / केषाम् ?, / 'सम्यग्दृशाम्' / कथम् ? / 'सततं' निरन्तरम् / किंविशिष्टं मतम् ? / 'जैनेन्द्र' तीर्थकरसत्कम् / पुनः किंविशिष्टं मतम् ? / गमाः-सदृशपाठाः तैः कृत्वा हारि-मनोहरं ‘गमहारि' / पुनः किंविशिष्टं मतम् ? / तापःसंसारभ्रमणलक्षणः तं अपहरतीति 'तापापहृत्' / पुनः किंविशिष्टं मतम् ? / यामा-महाव्रतानि रातिददातीति तद् ‘यामरम्' / पुनः किंविशिष्टं मतम् ? | दुःखेन नितरां भिद्यते इति 'दुर्निर्भेदं तादृशं यद् निरन्तरं-निश्छिद्रं-घनं आन्तरं-चेतोवृत्ति तमो-मोहान्धकारं अज्ञानं वा निश्चितं नाशयतीति 'दुर्निर्भेदनिरन्तरान्तर-तमोनि शि' / पुनः किंविशिष्टं मतम् ? | पर्युल्लसती-दीप्यमाना या लीलाविलासः तस्या भङ्गो-विविधरचना येषां ते तादृशा ये महान्तोऽरयः-शत्रवो रागद्वेषादयः तान् भिनत्तीति 'पर्युल्लसल्लीलाभङ्गमहारिभित्' / किंविशिष्टं मतम् ? / नमन्तः-प्रणमन्तः अनन्ता-अप्रमाणा अपापागतपापा हृद्या-मनोज्ञा अमरा-देवा यस्य यस्मिन् वा तत् ‘नमदनन्तापापहृद्यामरम्' / एतादृशं प्रवचनं सम्यग्दृशां सद्गुणालीलाभं आतनोतु / इति पदार्थः / / अथ समासः-जिनेन्द्राणामिदं जैनेन्द्रम् / सम्यग्-अविपरीता दृग् येषां ते सम्यग्दृशः, तेषां सम्यग्दृशाम् / सन्तश्च ते गुणाश्च सद्गुणाः, सद्गुणानामाली सद्गुणाली, सद्गुणाल्या लाभः सद्गुणा०, तं सद्गुणालीलाभम् / हरति चित्तं तद्धारि, गमैर्हारि गमहारि / भिन्नो मदनो येन तद् भिन्नमदनम् /