________________ श्रीशान्तिजिनस्तुतयः 257 कथं० ? 'पर्युलसल्लीलाभङ्गमहारिभित्' पर्युल्लसल्लीलाः-प्रोद्यद्विलासा अभङ्गाः-अजेया ये महारयो-महाप्रतिपक्षा अर्थाद् रागद्वेषादयस्तान् भिनत्ति यत् तत् तथा / पुनः कथं०? 'नमदनन्तापापहृद्यामरं' नमन्तःनमस्कुर्वन्तः अनन्ता-अन्तरहिता अपापाः-पापरहिता हृद्या-मनोज्ञा अमरा-देवा यस्य तत् तथा / / / अथं समासः-जिनानां जिनेषु वा इन्द्रः जिनेन्द्र: 'तत्पुरुषः' / जिनेन्द्रस्येदं जैनेन्द्रम् / सम्यग् दृशौ येषां ते सम्यग्दृशः ‘वहुव्रीहिः' / तेषां सम्यग्दृशाम् / सन्तश्च ते गुणाश्च सद्गुणाः ‘कर्मधारयः' / सद्गुणानाम्आली सद्गुणाली 'तत्पुरुषः' / सद्गुणाल्या लाभः सद्गु० 'तत्पुरुषः' / तं सद्गुणा० / गमैर्हारि गमहारि 'तत्पुरुषः' / भिन्नो मदनो येन तद् भिन्नमदनं 'वहुव्रीहिः' / तापमपहरतीति तापापहृत् 'तत्पुरुषः' / यामानि रातीति यामरं 'तत्पुरुषः' / दुःखेन निर्भेदो यस्य तद् दुर्निर्भेदं ‘बहुव्रीहिः' / न विद्यते अन्तरं यस्मिन् तत् निरन्तरं 'बहुव्रीहिः' / दुर्निर्भेदं च तद् निरन्तरं च दुर्निर्भेदनिरन्तरं 'कर्मधारयः' / आन्तरं च तत् तमश्च आन्तरतमः ‘कर्मधारयः' / दुर्निर्भेदनिरन्तरं च तद् आन्तरतमश्च दुर्निर्भदनिर० 'कर्मधारयः' / दुनिर्भेदनिरन्तरान्तरतमो निर्नाशयतीत्येवंशीलं दुर्निर्भद० 'तत्पुरुषः' / पर्युल्लसन्ती लीला येषां ते पर्युल्ल० 'बहुव्रीहिः' / न विद्यते भङ्गो येषां ते अभङ्गाः ‘बहुव्रीहिः' / महान्तश्च ते अरयश्च महारयः ‘कर्मधारयः' / पर्युल्लसल्लीलाश्च ते अभङ्गाश्च पर्युल० 'कर्मधारयः' / पर्युल्लसल्लीलाभङ्गाश्च ते महारयश्च पर्युलस० 'कर्मधारयः' / पर्युल्लसल्लीलाभङ्गमहारीन् भिनत्तीत्येवंशीलं पर्युलस० 'तत्पुरुषः' / न विद्यते अन्तो येषां ते अनन्ताः ‘बहुव्रीहिः' / हृद्याश्च ते अमराश्च हृद्यामराः 'कर्मधारयः' / न विद्यते पापं येषां ते अपापाः ('बहुव्रीहिः') / अपापाश्च ते हृद्यामराश्च अपापहृद्यामराः ('कर्मधारयः') / अनन्ताश्च ते अपापहृद्यामराश्च अनन्ता० 'कर्मधारयः' / नमन्तोऽनन्तापापहृद्यामरा यस्य तन्नमद० 'बहुव्रीहिः' / / इति काव्यार्थः / / 63 / / (2) सि० वृ०-जैनेन्द्रमिति / जिनेन्द्रस्येदं जैनेन्द्र-जिनेन्द्रसंबन्धि मतं-दर्शनं सम्यग्दृशो येषां ते सम्यग्दृशः तेषां सम्यग्दृशां-सम्यग्दृष्टीनां सद्गुणालीलाभं-सद्गुणश्रेणीप्राप्तिं सततं-निरन्तरं 'आतनोतु' आ-समन्ताद् विस्तारयतु इत्यर्थः / आयूर्वक 'तनु विस्तारे' धातोः ‘आशीःप्रेरणयोः' (सा० सू०७०३) कर्तरि परस्मैपदे प्रथमपुरुषैकवचनम् / अत्र ‘आतनोतु' इति क्रियापदम् / किं कर्तृ ? / 'मतम्' / कं कर्मतापन्नम् ? / 'सद्गुणालीलाभं' सन्तः-शोभना ये गुणास्तेषां (आली-पङ्क्तिस्तस्या) लाभः-प्राप्तिः तम् / केषाम् ? / 'सम्यग्दृशाम्' / कथम् ? | 'सततम्' / मतं किमात्मीयम् ? / 'जैनेन्द्रम्' / कथंभूतम् ? / 'गमहारि' गमाः-सदृशपाठाः तैर्हारि-मनोहरम् / पुनः कथंभूतम् ? | ‘भिन्नमदनं' भिन्नोविदारितो मदनो येन तत्, तदुच्छेदपरत्वेनास्य सिद्धत्वात् / पुनः कथंभूतम् ? | 'तापापहृत्' तापं अर्थात् संसारजनितं अपहरतीति तापापहृत् / पुनः कथंभूतम् ? | ‘यामरं' यामानि-अहिंसाद्यात्मकानि महाव्रतानि