________________ 256 शोभनस्तुति-वृत्तिमाला कान्ताः-मुख्याः शिरःप्रान्ता वा प्रणामपर्यन्ताः स्त्रियो वा तैरञ्चिताः-पूजिताः / ते जिनवृषभाः जीयासुः ये की- चिताः प्राप्तलोकत्रयीराज्याः ईषदपि न मेदुरित्यन्वयः / / 62 / / अवचूरिः ते जिनोत्तमा जयन्तु / ये प्राप्तत्रैलोक्यैश्वर्या अपि ईषदपि न मेदुः-मदं चक्रुरिति संबन्धः / किंविशिष्टाः ? / अविद्विषः-शत्रुरहिताः, मालां-स्रजं धारयन्तः / मालां किंभूताम् ? / स्नोराज्यापरागपूरेण मेदुराः पारिजातकुसुमानि संतानककुसुमानि च तेषामन्ता-अवयवा यस्यां ताम् / चिताव्याप्ताः / कया ? 'कीर्त्या' / कथंभूतया ? / 'कुन्दपुष्पोज्ज्वलया' / अपारिजाता-अपगतवैरिवृन्दा ये सुमनः-सन्ताना-विद्वत्समूहा देवसमूहा वा तेषां कान्ताः-शिरःप्रान्ताः प्रणामपराः स्त्रियो वा तैरञ्चिताःपूजिताः / / 62 // जिनमतस्य स्तुतिः जैनेन्द्रं मतमातनोतु सततं सम्यग्दृशां सद्गुणा- ... ___ लीलाभं गमहारि भिन्नमदनं तापापहृद् यामरम् / दुर्निर्भेदनिरन्तरन्तरतमोनिर्नाशि पर्युल्लस ल्लीलाभङ्गमहारिभिन्नमदनन्तापापहृद्यामरम् // 3 // 63 // ___ - शार्दूल० ज० वि०-जैनेन्द्रमिति / जैनन्द्रं-जिनेन्द्रसम्बन्धि मतं-दर्शनं सम्यग्दृशां-सम्यग्दृष्टीनां 'सद्गुणालीलाभं' सन्तः-शोभना ये गुणास्तेषां (आली-पङ्क्तिस्तस्या) लाभ-प्राप्तिं सततं-निरन्तरम् आतनोतुसमन्ताद् विस्तारयत्विति क्रियाकारकसंयोजनम् / अत्र आतनोतु' इति क्रियापदम् / किं कर्तृ ? 'मतम्' / कं कर्मतापन्नम् ? 'सद्गुणालीलाभम्' / केषाम् ? 'सम्यग्दृशाम्' / कथम् ? सततम्' / मतं किमिदम् ? 'जैनेन्द्रम्' / कथंभूतं मतम् ? ‘गमहारि' गमैः-सदृशपाठैर्हारि-मनोहरम् / पुनः कथं० ? 'भिन्नमदनम्' विदारितमारम् / पुनः कथं० ? 'तापापहृत्' तापमपहरतीति तापापहृत् / पुनः कथं० ? 'यामरं' यामानिव्रतानि राति-ददातीति यामरम् / पुनः कथं० ? 'दुर्निर्भेदनिरन्तरान्तरतमोनिर्नाशि' दुर्निभेद-दुरवच्छेद्यं निरन्तरं-निर्विवरं आन्तरं-मनोऽन्तर्भवं एतादृशां यत् तमो-मोहस्तं निर्नाशयतीत्येवंशीलम् / पुनः