________________ श्रीशान्तिजिनस्तुतयः 255 दे० व्या०-ते जीयासुरिति / ते जिनाः-तीर्थंकराः जीयासुः इति संबन्धः / 'जि जये' धातुः / 'जीयासुः' इति क्रियापदम् / के कर्तारः ? | 'जिनवृषाः' जिनाः-सामान्यकेवलिनः तेषु वृषाः-श्रेष्ठाः / “धर्मो वृषो वृषश्रेष्ठो, वृषण्डो मूर्षको वृषः” इत्यनेकार्थः / किंविशिष्टा जिनवृषाः ? / 'अविद्विषः' नास्ति विद्वेषो येषां ते तथा / तदुक्तं-“वासीचंदणकप्पे, समाणे ले/कंचणे” इति / जिनाः किं कुर्वाणाः ? / 'दधाना'-धारयन्तः / काम् ? / 'माला'-स्रजम् / किंविशिष्टां मालाम् ? / 'रजोराज्या मेदुरपारिजातसुमनःसन्तानकान्ताम्' 'रजसां-पुष्परेणूनां राजिः-श्रेणिस्तया मेदुराः-पीवराः ये पारिजाताः-कल्पपादपाः तेषां सुमनःसन्तानाः-पुष्पसमूहाः तैः कान्तां-भूषिताम् / “गुलुञ्छोऽथ रजः पौष्पं, परागोऽथ रसो मधु” इत्यभिधानचिन्तामणिः (का०४, श्लो० 192) / संतानः-तरुविशेषः तस्य पुष्पाणि संतानकानि तेषां अन्ता-अवयवा यस्यां सा तथेति प्राञ्चः / पुनः किंविशिष्टाः ? / 'चिताः'-व्याप्ताः / कया ? / 'कीर्त्या'यशसा / “श्लोकः कीर्तिर्यशोऽभिख्या" इत्यभिधानचिन्तामणिः' (का० 2, श्लो० 187) / किंविशिष्टया कीर्त्या ? / 'कुन्दसमत्विषा' कुन्द:-कुसुमविशेषः तेन सदृशा त्विट्-कान्तिः यस्याः सा तया / पुनः किंविशिष्टाः ? / यत्तदोर्नित्याभिसम्बन्धाद् ये जिनवृषाः प्राप्तलोकत्रयीराज्या अपि ईषद्मनाक् न मेदुः-न मदं गतवन्तः / 'न मेदुः' इति क्रियापदम् / के कर्तारः ? / 'जिनवृषाः' / किं कर्मतापन्नम् ? / 'ईषत्' / किंविशिष्टा जिनवृषाः ? / 'प्राप्तलोकत्रयीराज्याः' प्राप्तं-लब्धं लोकत्रय्याःत्रिभुवनस्य राज्यं-साम्राज्यं यैस्ते तथा / पुनः किंविशिष्टाः ? / 'अपारिजातसुमनःसन्तानकान्ताञ्चिताः' अपगता अरिजाताः-शत्रुसमूहा येषां ते अपारिजाताः ते च ते सुमनःसन्तानाश्च-देवसमूहास्तेषां कान्ताःयोषितः ताभिः अञ्चिताः-पूजिताः / “वृन्दारकाः सुमनसस्त्रिदशा अमर्त्याः” इत्यभिधानचिन्तामणिः (का० 2, श्लो०.२) / / इति द्वितीयवृत्तार्थः / / 62 / / ध० टीका-ते इति / 'ते' / 'जीयासुः' जयन्तु / 'अविद्विषः' विगतद्विषः / 'जिनवृषाः' जिनवृषभाः / 'मालां दधानाः' स्रजं बिभ्रतः / ‘रजोराज्या' परागसन्तत्या / 'मेदुरपारिजातसुमनःसन्तानकान्तां' मेदुराः-पीवराः पारिजातसुमनसः सन्तानकानि-सन्तानकुसुमानि च तेषामन्ता-अवयवा यस्यां ताम् / 'चिताः' सम्बद्धाः / 'कीर्त्या' प्रख्यात्या / 'कुन्दसमत्विषा' कुन्दसदृशदीप्त्या / 'ईषदपि ये' मनागपि ये / 'न' इति प्रतिषेधे / 'प्राप्तलोकत्रयीराज्याः' लब्धजगत्त्रयैश्वर्याः / 'मेदुः' मदं गतवन्तः / ‘अपारिजातसुमनःसन्तानकान्ताञ्चिताः' अपगतारिसन्दोहाः ये सुमनसां-देवानां सन्तानाः-समूहाः तेषां 1. वासीचन्दनकल्पः समानो लेष्टुकाञ्चने /