________________ 254 शोभनस्तुति-वृत्तिमाला सौ० वृ०-ते जीयासुरिति / ते जिनवृषाः-तीर्थकरश्रेष्ठाः जीयासुरित्यन्वयः / ‘जीयासुः' इति क्रियापदम् / के कर्तारः ? / 'जिनवृषाः' / 'जीयासुः' जयन्तु / किंविशिष्टा जिनवृषाः ? / 'ते' प्रसिद्धाः / प्रक्रान्तप्रसिद्धार्थस्तच्छब्दो यच्छब्दमपेक्षते / ते के जिनाः ? / प्राप्तलोकत्रयीराज्या अपि ईषद् न मेदुरित्यन्वयः / ‘मेदुः' इति क्रियापदम् / ये जिनाः न मेदुः-मदं न प्रापुः / कथम् ? | 'ईषद्' स्तोकमात्रमपि / किंविशिष्टा जिनवृषाः ? / 'प्राप्तलोकत्रयीराज्या अपि' सम्प्राप्तत्रिभुवनसाम्राज्या अपि / पुनः किंविशिष्टा जिनवृषाः ? / 'अविद्विषः' गतशत्रवः / पुनर्जिनवृषाः किं कुर्वाणाः ? / 'दधानाः' धार्यमाणाः / कां कर्मतापन्नाम् ? / 'माला' कुसुमस्रजम् / किंविशिष्टां मालाम् ? / रजः-परागः तस्य, . राजिः-श्रेणिः रजोराजिस्तया रजोराज्या कृत्वा मेदुराः-पुष्टाः पारिजाताः-कल्पवृक्षास्तेषां सुमनसःपुष्पाणि तेषां सन्तानाः-समूहास्तैः कृत्वा कान्ताः-मनोज्ञाः [अन्ता-मध्यभागा यस्याः सा] मेदुरपारिजातसुमनःसन्तानकान्ता तां 'मेदुरपारिजातसुमनःसन्तानकान्ताम्' / [पुनः किंविशिष्टा जिनवृषाः ? | ‘पीनाः' पुष्टाः / ] कया ? | 'कीर्त्या' यशसा / किंविशिष्टया कीर्त्या ? / मुचकुन्दपुष्पाणि तैः समा-सदृशी त्विट्कान्तिर्यस्याः सा कुन्दसमत्विट तया ‘कुन्दसमत्विषा' / पुनः किंविशिष्टा जिनवृषाः ? | अपगतमरीणांशत्रूणां जातं-समूहो येभ्यस्ते तादृशाः सुमनसो-विबुधाः पण्डिता वा तेषां सन्तानाः-समुदायास्तेषां कान्ताःस्वामिनस्तैरचित्ताः-पूजिता 'अपारिजातसुमनःसन्तानकान्ताञ्चिताः' / इति पदार्थः / / . अथ समासः-विशेषेण द्विषन्तीति विद्विषः, न सन्ति विद्विषो येषां ते अविद्विषः / जिनेषु वृषाः जिनवृषाः / “वृपो धर्म पशौ दासे, श्रेष्ठे शब्दे स्थितेतरे” इत्यनेकार्थसंग्रहः / रजसां राजिः रजोराजिः, तया रजोराज्या / मेदुरश्चासौ पारिजातश्च मेदुरपारिजातः, मेदुरपारिजातस्य सुमनांसि मेदुरपारिजातसुमनांसि, मेदुरपारिजातसुमनांसि च सन्तानाश्च मेदुरपारिजातसुमनःसन्तानाः, मेदुरपारिजातसुमनःसन्तानैः कान्ता मेदुरपारिजातसुमनःसन्तानकान्ता, (ताम्) / कुन्दस्य समा कुन्दसमा, कुन्दसमा त्विट् यस्याः सा कुन्दसमत्विट्, तया कुन्दसमत्विषा / लोकानां त्रयी लोकत्रयी, लोकत्रय्या राज्यं (लोकत्रयीराज्यं), लोकत्रयीराज्यं प्राप्तं यैस्ते प्राप्तलोकत्रयीराज्याः / अरीणां जातम् अरिजातं, अपगतम् अरिजातं येभ्यस्ते अपारिजाताः, सुमनसां सन्तानाः सुमनःसन्तानाः, अपारिजाताश्च ते सुमनःसन्तानाश्च अपारि०, अपारिजातसुमनःसन्तानानां कान्ता अपारिजातसुमनःसन्तानकान्ताः, अपारिजातसुमनःसन्तानकान्तैः अञ्चिता अपारिजातसुमनःसन्तानकान्ताञ्चिताः / पारिजात-सन्तान-मन्दार-हरिचन्दनकल्पाद्याः पञ्चापि कल्पवृक्षाः सन्ति / ‘सुमनाः पण्डिते पुष्पे, देवे सज्जने समितौ” इत्यनेकार्थः / / इति द्वितीयवृत्तार्थः / / 62 / /