________________ श्रीशान्तिजिनस्तुतयः 253 ते सुमनःसन्तानाश्च अपारि० 'बहुव्रीहिः' / अपारिजातसुमनःसन्तानानां कान्ताः अपारि० 'तत्पुरुषः'। अपारिजातसुमनःसन्तानकान्तैरञ्चिता अपारि० 'तत्पुरुषः' / शिरःप्रान्तपक्षे कानामन्ताः कान्ता इति समस्यते / स्त्रीपक्षे च कान्ताभिरिति स्त्रीनिर्देशेन समस्यते / इति काव्यार्थः / / 62 / / (2) .. सि० वृ०-ते जीयासुरिति / ते जिनवृषा-जिनवृषभा जीयासुः-जयन्तु इत्यर्थः / 'जि जये' धातोराशिषि कर्तरि परस्मैपदे प्रथमपुरुषबहुवचनं यासुस् / 'ये' (सा० सू० 779) इति दीर्घः / स्रोर्विसर्गः (सा० सू० 124) / तथा च ‘जीयासुः' इति सिद्धम् / अत्र ‘जीयासुः' इति क्रियापदम् / के कर्तारः ? / 'जिनवृषाः' जिनानां जिनेषु वा वृषाः-श्रेष्ठाः जिनवृषा इत्यर्थः / “वृषः स्याद् वासके धर्मः, सौरभेये च शुक्रले / पुराशिभेदयोः शृङ्गया, मूषकश्रेष्ठयोरपि // " इति विश्वः / कथंभूता जिनवृषाः ? / 'अविद्विषः' न सन्ति विद्विषो येषां ते अविद्विषः / जिनवृषा किं कुर्वाणाः ? / 'दधानाः'-बिभ्रतः / काम् ? / 'माला'-सजम् / कथंभूतां मालाम् ? / 'रजोराज्या मेदुरपारिजातसुमनःसन्तानकान्तां रजसां-पुष्परागाणां राजिः-श्रेणिः तया मेदुराः-पीवरा ये पारिजातसुमनःसन्तानाः पारिजातस्य-कल्पवृक्षस्य सुमनःसन्तानाः-पुष्पसमूहाः तैः कान्तं-मनोहरम् / अन्ये तु पारिजातस्य कुसुमानि सन्तानकानि सन्तानककुसुमानि च तेषामन्ताः-अवयवा यस्यामिति व्याख्यान्ति / पुनः कथंभता जिनवृषाः ? / चिता-व्याप्ताः / कया ? / 'कीर्त्या' / कथंभूतया ? / 'कुन्दसमत्विषा' कुन्द:पुष्पविशेषः तेन समाना त्विट्-प्रभा यस्याः सा तथा तया / ते इति ते के इत्याह-ये जिनवृषा ईषदपिमनागपि न मेदुः-न मदं गतवन्त इत्यर्थः / ‘मदी हर्षे' इति धातोः कर्तरि परस्मैपदे परोक्षे प्रथमपुरुषबहुवचनं उस् / द्विश्च' (सा० सू० 710) इति धातोद्धित्वम् / ‘णादिः कित्' (सा० सू० 709) इत्यनेन कित्वम् / ‘लोपः पचा कित्ये चास्य' (सा० सू० 762) इत्यनेन पूर्वस्य लोपः, अकारस्य चैकहसस्य एकारः / तथा च ‘मेदुः' इति सिद्धम् / अत्र 'न मेदुः' इति क्रियापदम् / के कर्तारः ? / 'ये' / कथम् ? / न / 'न' इति निषेधपदम् / कथम् ? / ईषदपि / कथंभूता ये ? / 'प्राप्तलोकत्रयीराज्याः ' प्राप्तं-लब्धं लोकत्रय्याः लोकानां त्रयी तस्याः राज्यं-ऐश्वर्यं यैस्ते तया / पुनः कथंभूताः ? / ‘अपारिजातसुमनःसन्तानकान्ताञ्चिताः' अपारिजाताः-अपगतवैरिसमूहा ये सुमनःसन्ताना-देवसमूहाः तेषां कानां अन्ताः कान्ताः-शिरःप्रान्ताः कान्ताः-स्त्रियो वा ताभिश्च अञ्चिताः-पूजिताः / अपेर्गम्यमानत्वाद् ये एतादृशाः सन्तोऽपि न मेदुरिति भावः / / 62 / /