________________ 252 शोभनस्तुति-वृत्तिमाला जिनवराणां विजयः- . ते जीयासुरविद्विषो जिनवृषा मालां दधाना रजो राज्या मेदुरपारिजातसुमनःसन्तानकान्तां चिताः / की, कुन्दसमत्विषेषदपि ये न प्राप्तलोकत्रयी राज्या मेदुरपारिजातसुमनःसन्तानकान्ताञ्चिताः // 2 // 62 // - शार्दूल० (1) ज० वि०-ते जियासुरिति / ते जिनवृषा-जिनवृषभा जीयासुः-जयन्तु इति क्रियाकारकप्रयोगः / अत्र ‘जीयासुः' इति क्रियापदम् / के कर्तारः ? “ज़िनवृषाः' / कथंभूता जिनवृषाः ? 'अविद्विषः' गतविद्वेषाः / जिनवृषाः किं कुर्वाणाः ? दधानाः' बिभ्रतः / कां कर्मतापन्नाम् ? 'माला' स्रजम् / कथंभूतां मालाम् ? 'रजोराज्या मेदुरपारिजातसुमनःसन्तानकान्ताम्' रजांसि-पुष्परागाः तेषां राज्या-श्रेण्या मेदुराः-पीवराः पारिजातसुमनसः-पारिजातकुसुमानि सन्तानककुसुमानि च तेषां अन्ता-अवयवा यस्याः सा तथा ताम् / जिनवृषाः पुनः कथं० ? 'चिताः' सम्बद्धाः व्याप्ता इति यावत् / कया ? 'कीर्त्या' प्रख्यात्या / कथंभूतया ? 'कुन्दसमत्विषा' कुन्दकुसुमोपमदीप्त्या / त इति तच्छब्दसम्बद्धत्वाद् यच्छब्दघटनामाह-ये जिनवृषाः ईषदपि-मनागपि न मेदुः-न मदं गतवन्तः / अत्रापि 'मेदुः' इति क्रियापदम् / के कर्तारः ? 'ये' / कथम् ? 'न' / नेति निषेधपदम् / कथम् ? 'ईषदपि' / ये कथंभूताः सन्तः ? प्राप्तलोकत्रयीराज्याः' लब्धजगत्त्रयैश्वर्याः / पुनः कथं० ? अपारिजातसुमनःसन्तानकान्ताञ्चिताः' अपारिजाताः-अपगतवैरिसमूहा ये सुमनःसन्ताना-देवानां समूहाः तेषां कान्ता-मुख्याः शिरःप्रान्ता वा प्रणामप्रान्ताः स्त्रियो वा तैः अञ्चिताः-पूजिताः / अपेर्गम्यमानत्वाद् ये एतादृशाः सन्तोऽपि न मेदुरिति / अथ समासः-न विद्यन्ते विद्विषो येषां ते अविद्विषः ‘बहुव्रीहिः' / जिनानां जिनेषु वा वृषाः जिनवृषाः 'तत्पुरुषः' / रजसां राजी रजोराजी 'तत्पुरुषः' / तया रजोराज्या / पारिजातस्य सुमनसः पारि० 'तत्पुरुषः' / पारिजातसुमनसश्च सन्तानकानि च पारिजा० 'इतरेतरद्वन्द्वः' / पारिजातसुमनसःसन्तानकानामन्ताः पारि० 'तत्पुरुषः / मेदुराः पारिजातसुमनःसन्तानकान्ता यस्याः सा मेदुरपा० 'बहुव्रीहिः' / तां मेदु० / कुन्दस्य समा कुन्दसमा 'तत्पुरुषः' / कुन्दसमा त्विट् यस्याः सा कुन्द० 'बहुव्रीहिः' / तया कुन्द० / लोकानां त्रयी लोकत्रयी ‘तत्पुरुषः' / लोकत्रय्या राज्यं लोक० 'तत्पुरुषः'। प्राप्तं लोकत्रयीराज्यं यैस्ते प्राप्तलो० ‘बहुव्रीहिः' / अरीणां जातं अरिजातं तत्पुरुषः' / अपगतं अरिजातं येभ्यस्ते अपारिजाताः ‘बहुव्रीहिः' / सुमनसां सन्तानाः सुमनःसन्तानाः 'तत्पुरुषः' / अपारिजाताश्च