________________ श्रीशान्तिजिनस्तुतयः 251 +++++++++++++++++++++++ अत्र भगवत्तनोरष्टापदाद्रिणा श्लेषः / सोऽपि नवपद्ममणिरागरुचिरैः पादै:-मूलप्रदेशैः राजति (ते) द्रुतजातरूपविभवं विभर्ति अमरसेव्यश्च स्यात् / / इति प्रथमवृत्तार्थः / / 61 / / (5) ध० टीका-राजन्त्या इति / 'राजन्त्या' भ्राजमानया / 'नवपद्मरागरुचिरैः' नवस्य पद्मस्य यो रागो-रक्तता तद्वत् रुचिरैः-चारुभिः पादै:-अंहिभिः / 'जिताष्टापदाद्रे !' जितः-तुलितोऽष्टापदाद्रि:कनकशैलो येन तस्यामन्त्रणम् / ‘अकोप !' क्रोधरहित ! / 'द्रुतजातरूपविभया' द्रुतं-विलीनं यज्जातरूपंस्वर्णं तद्वत् विभा यस्याः तया / 'तन्वा' मूर्त्या / ‘अर्य !' स्वामिन् ! / 'धीर !' धैर्ययुक्त ! / 'क्षमाम्' क्षान्तिम् / 'विभ्रत्या' दधानया। ‘अमरसेव्यया' सुरैः सेवनीयया / 'जिनपते !' जिनेन्द्र ! / 'श्रीशान्तिनाथ !' / 'अस्मरोद्रेकोपद्रुत !' न स्मरोद्रेकेण-मदनावेगेन उपद्रुतः-खलीकृतो यस्तस्यामन्त्रणम् / 'जातरूप !' प्रादुर्भूतसौन्दर्य ! / 'विभय !' विगतत्रास ! / 'अतन्वार्यधीः' अतनुः-अकृशः आर्या-प्रशस्या धीः-बुद्धिर्यस्य तस्यामन्त्रणम् / 'रक्ष मां' त्रायस्व माम् / अत्र भगवत्तनोरष्टापदाद्रिणा श्लेषः, सोऽपि नवपद्मरागरुचिरैः नवारुणमणिरुचिरैः पादैर्मूलप्रदेशे राजति(ते), द्रुतजातरूपविभःप्रसृतसुवर्णद्युतिः क्षमां-भुवं बिभर्ति अमरसेव्यश्च / तदेवं तन्वा जिताष्टापदाद्रे ! श्रीशान्तिनाथ ! रक्ष मामिति योगः / / 61 / / अवचूरिः हे श्रीशान्तिदेव ! मां रक्ष-पालय / जितोऽष्टापदाद्रिः-मेरुर्येन तस्य संबोधनम् / कया ? | तन्वाशरीरेण / किंभूतया ? / पादैः-चरणै राजन्त्या-शोभमानया / किंभूतैः ? / नवपद्मरागो-नूतनकमलरक्तता तद्वद् चिरैः-चारुभिः / हे अकोप !-अक्रोध ! | पुनस्तन्वा किंभूतया ? / द्रुतम्-उत्तप्तं यज्जातरूपं-तपनीयं तद्वद् विभा-कान्तिर्यस्यास्तया / हे अर्य !-स्वामिन् ! / हे धीर ! परिषहाद्यक्षोभ्य ! / तन्वा किं कुर्वत्या ? | क्षमा-शान्तिं बिभ्रत्या-धारयन्त्या / अमरसेव्यया-देवसेवनीयया / हे अस्मरोद्रेकोपद्रुत ! न कामवेगपीडित ! / जातं-प्रादुर्भुतं विश्वातिशायि रूपं-सौन्दर्यं यस्य / हे विभय !-गतभय ! / अतनुः-अकृशा आर्याप्रशस्या धीर्यस्य तस्य संबोधनम् / त्वमित्यस्यानुक्तस्यापि रक्षेति क्रिययोपलब्धस्य विशेषणं वा / अत्र तनोर्मेरुणा श्लेषः, सोऽपि पद्मरागमणिमयैः पादैर्मूले राजते स्वर्णवर्णश्च / क्षमां-भुवं बिभर्ति अमरसेव्यश्च स्यात् / / 61 / /