________________ 250 शोभनस्तुति-वृत्तिमाला सेव्या अमरसेव्या, तया अमरसेव्यया / जिनानां पतिर्जिनपतिः, तस्य सं० हे जिनपते ! / श्रिया युक्तः शान्तिनाथः श्रीशान्तिनाथः, तस्य सं० हे श्रीशान्तिनाथ ! / स्मरस्य उद्रेकः स्मरोद्रेकः, न विद्यते स्मरोद्रेको यस्य सः अस्मरोद्रेकः (तस्य सं० हे अस्म०) / उप द्रुतं-चारित्रं यस्य स उपद्रुतः, तस्य सं० हे उपद्रुत ! / “द्रुतं स्थिरे चरित्रे च, धौव्येऽनेकार्थभस्मनोः” इत्यनेकार्थतिलकः / उप-समीपे जातं रूपं यस्य सः, तस्य सं० हे जातरूप ! / विगतं भयं यस्मात् स विभयः, तस्य सं० हे विभय ! / आरात्-पापाद् रितो-गतः आर्यः, तस्य सं० हे आर्य ! / हे धीर ! / इति प्रथमवृत्तार्थः / शार्दूलविक्रीडितच्छन्दसा स्तुतिरियम् / तथा तनुशब्दः स्त्रीलिङ्गे दीर्घोऽप्यस्ति तन्वेति सिद्धम् / तनुमेर्वोः सादृश्यमुक्तमतो मेरुरपि अमरसेव्यो भवति, नवपद्मरागरुचिरैः पदै राजितो भवति, उत्तप्तसुवर्णकान्तिर्भवति इत्युभयोः सादृश्यम् / इति छायार्थः / / 61 / / दे० व्या०-राजन्त्येति / हे श्रीशान्तिनाथ ! त्वं मां रक्ष-पालयेत्यन्वयः / 'रक्ष रक्षणे' धातुः / 'रक्ष' इति क्रियापदम् / कः कर्ता ? / 'त्वम्' / कं कर्मतापन्नम् ? / 'माम्' / हे 'जिताष्टापदाद्रे !' जितःअधरीकृतः अष्टापदादिः येन स तस्यामन्त्रणम् / “स्वर्गिकाञ्चनजो(तो)गिरिः” इत्यभिधानचिन्तामणिः (का०४,श्लो० 98) / कया ? / तन्वा-शरीरेण / किं कुर्वत्या तन्वा ? | राजन्त्या-शोभमानया / कैः ? | चरणैः / “पदख्रिश्चरणोऽस्त्रियाम्” इत्यमरः (श्लो० 1216) / किंविशिष्टैः पादै: ? / 'नवपद्मरागरुचिरैः' नवं-नूतनं यत् पद्म-कमलं तस्य रागो-रक्तिमा, यद्वा नवः-प्रत्यग्रो यः पद्मरागमणिः तद्वद् रुचिरैःमनोज्ञैः, माञ्जिष्ठवर्णत्वात् / पुनः किं कुर्वत्या तन्वा ? / बिभ्रत्या-धारयन्त्या / काम् ? / 'क्षमां'तितिक्षाम् / “तितिक्षा सहनं क्षमा” इत्यभिधानचिन्तामणिः (का० 3, श्लो० 55) / किंविशिष्टया तन्वा ? / 'द्रुतजातरूपविभया' द्रुतं-विलीनं यद् जातरूपं-सुवर्णं तद्वद् विभा-कान्तिः यस्याः सा तया / पुनः किंविशिष्टया ? / 'अमरसेव्यया' अमरा-देवाः तेषां सेवनारे सेव्या तया / हे ‘अकोप !' न विद्यते कोपः-क्रोधो यस्य स तस्यामन्त्रणम्, ध्वस्तक्रोधत्वात् / हे आर्य !-हे स्वामिन् ! हे 'धीर !' धियं-बुद्धिं राति-दत्ते इति धीरः, यद्वा परीषहाद्यक्षोभ्यत्वेन धीरः स तस्यामन्त्रणम् / हे 'जिनपते !' जिनाःसामान्यकेवलिनः तेषां पतिः-स्वामी यः स तस्यामन्त्रणं, तीर्थप्रवर्तकत्वात् / हे 'अस्मरोद्रेकोपद्रुत !' स्मरः-कामः तस्य उद्रेकः-आधिक्यं तेन उपद्रुतः-पीडितः न भवति यः स तस्यामन्त्रणम् / हे 'जातरूप !' जातं-प्रादुर्भूतं रूपं-सौन्दर्यं यस्य स तस्यामन्त्रणम्, तीर्थंकरनामकर्मोदयात्', हे ‘विभय !' विगतं भयंदरो यस्मात् स तस्यामन्त्रणं, शरीरादपि निःस्पृहत्वात् / हे अतन्वार्यधीः ! / अतन्वी-प्रचुरा आर्या-प्रशस्या धी:-बुद्धिर्यस्य स तस्यामन्त्रणं, प्रतिसमयं परहितचिन्तनात् / एतानि सर्वाणि भगवतः सम्बोधनपदानि /