________________ श्रीशान्तिजिनस्तुतयः 249 ध्यायतीति धीः ‘ध्यै चिन्तायाम्' 'ध्यायतेः (क्विपि) संप्रसारणं (दीर्घता) च वक्तव्या' (सा० सू० 1255) इति क्विप् संप्रसारणं च / / 61 / / . साथ सौ० वृ०-यो मूर्तिमान् धर्मो भवति स सर्वप्राणिनां शान्तिकृदेव भवति / अनेन सम्बन्धेनायातस्य षोडशमश्रीशान्तिनाथस्य स्तुतेरो व्याख्यायते-राजन्त्येति / श्रीशब्दः पूज्यार्थे / श्रिया-चतुस्त्रिंशदतिशयलक्ष्म्या युक्त ! हे श्रीशान्तिनाथ ! त्वं मां रक्षेत्यन्वयः ‘रक्ष' इति क्रियापदम् / कः कर्ता ? / 'त्वं' भवान् / 'रक्ष' पालय / कं कर्मतापन्नम् ? / 'माम्' / अन्यानि विशेषणानि भगवतः सम्बोधनरूपाणि व्याचक्षते / जितः-निर्जितः अष्टापदं-सुवर्णं तस्य अद्रिः-पर्वतो मेरुर्येन स जिताष्टापदादिः, तस्य सं० हे 'जिताष्टापदाद्रे !' / कया ? / 'तन्वा' मूर्त्या / किंविशिष्टया तन्वा ? / 'राजन्त्या' शोभमानया / कैः कृत्वा ? / ‘पादैः' किरणैः / किंविशिष्टैः पादै: ? / नवं-नवीनं यत् पद्म-कमलं तस्य रागः-रक्तिमा तद्वत् रुचिरा-मनोहरास्तैः ‘नवपद्मरागरुचिरैः' / हे अकोप !' अक्रोध ! / पुनः किंविशिष्टया तन्वा ? / द्रुतंउत्तप्तं जातरूपं-सुवर्णं तद्वद् विशिष्टा भा-प्रभा यस्याः सा द्रुतजातरूपविभा तया ‘द्रुतजातरूपविभया' / कथंभूतस्त्वम् ? / अतनुः-अकृशा आर्या-प्रधाना धीः-बुद्धिर्यस्य स अतन्वार्यधीः' / यद्वा संबोधनमपीदं हे 'अतन्वार्यधीः !' | पुनः किंविशिष्टया तन्वा ? / 'बिभ्रत्या धारयन्त्या / कां कर्मतापन्नाम् ? / 'क्षमा' क्षान्तिम् / पुनः किंविशिष्टया तन्वा ? / अमरा-देवास्तैः सेव्या-सेवनीया अमरसेव्या तया / जिनाःसामान्यकेवलिनस्तेषां पतिर्जिनपतिः, तस्य सं० हे 'जिनपते !' स्मरः-कामः तस्य उद्रेक-आधिक्यं स नास्ति यस्य सः अस्मरोद्रेकः, तस्य सं० हे 'अस्मरोद्रेक' ! / हे 'उपद्रुत !' उप-समीपे द्रुतं-चारित्रं यस्य (स) उपद्रुतः, तस्य सं० हे उपद्रुत ! / जातं-प्राप्तं रूपं-परमात्मरूपं यस्य येन वा स जातरूपः, तस्य सं० हे 'जातरूप !' / विगतं भयं यस्मात् स विभयः, तस्य सं० हे 'विभय !' / हे 'आर्य !' हे श्रेष्ठ ! / हे 'धीर !' धियं ईरयतीति धीरः, यद्वा धियं-बुद्धिं राति-ददातीति धीरः, यद्वा धिया-बुद्ध्या राजते इति धीरः, तस्य सं० हे धीर ! / त्वं मां रक्ष इति पदार्थः / / अथ समासः-राजते सा राजन्ती, तया राजन्त्या / नवानि च तानि पद्मानि च नवपद्मानि, नवपद्मानां रागो नवपद्मरागः, नवपद्मरागवद् रुचिरा नवपद्मरागरुचिराः, तैर्नवपद्मरागरुचिरैः / अष्टापदस्य अद्रिः अष्टापद्राद्रिः, जितः अष्टापदाद्रिर्येन स जिताष्टापदाद्रिः, तस्य सं० हे जिताष्टापदाद्रे ! / नास्ति कोपो यस्य सः अकोपः, तस्य सं० हे अकोप ! / द्रुतं च तद् जातरूपं च द्रुतजातरूपं, द्रुतजातरूपवद् विभा यस्याः सा द्रुतजातरूपविभा, तया द्रुतजातरूपविभया / न तनुः अतनुः, आर्या चासौ धीश्च आर्यधीः, अतनुः आर्यधीर्यस्य स अतन्वार्यधीः / बिभर्ति सा बिभ्रती, तया बिभ्रत्या / सेवितुं योग्या सेव्या, अमरैः