________________ 248 शोभनस्तुति-वृत्तिमाला ‘माम्' / अवशिष्टानि श्रीशान्तिनाथस्य संबोधनानि, तेषां व्याख्या यथा-हे 'जिताष्टापदाद्रे !' जितःअवगणितः अष्टापदाद्रिः-कनकशैलो येन स तस्य संबोधनम् / “अष्टापदं स्यात् कनकें, सारीणां फलकेऽपि च / अष्टापदश्च शरभे चन्द्रमल्ल्यां च मर्कटे // " / इति विश्वः / कया ? / 'तन्वा'-मूर्त्या करणभूतया / किं कुर्वत्या तन्वा ? / 'राजन्त्या'-विराजमानया / कैः कृत्वा ? / ‘पादैः'-चरणैः प्रत्यन्तपर्वतैश्च / “पादा रश्म्यधितुर्यांशाः”, “पादाः प्रत्यन्तपर्वताः” इत्यमरः (श्लो० 646) / 'नवपद्मरागरुचिरैः' नवं-नवीनं यत् पञ-कमलं शोणरत्नं वा, “शोणरलं लोहितकं (कः), पद्मरागोऽथ मौक्तिकम्” इत्यमरः (श्लो० 1891), तस्य रागो-रक्तिमा तद्वद् रुचिरैः-चारुभिः, पादयोः रक्तवर्णत्वादिति भावः / भगवत्पक्षे पादरित्यत्र बहुवचनं विचारणीयमिव प्रतिभाति / पुनः किं कुर्वत्या तन्वा ? / 'विभ्रत्या'-दधता / काम् ? / 'क्षमा'-शान्तिम् / कथंभूतया तन्वा ? / 'द्रुतजातरूपविभया' द्रुतं-विलीनं यज्जातरूपं-सुवर्णं तद्वद् विभा-प्रभा यस्याः सा तथा तया / “चामीकरं जातरूपं, महारजतकाञ्चने” इत्यमरः (श्लो० 1896) / पुनः कथंभूतया ? / 'अमरसेव्यया' अमरैः-देवैः सेव्यया-सेवनीयया / तन्वा जिताष्टापदाद्रे ! इत्यनेन तनुमेर्वोः साधर्म्यमूचे, तेन तनुविशेषणानि मेरोरपि संभवन्ति / तथाहि-मेरुरपि 'नवपद्मरागरुचिरैः' नवाः-प्रत्यग्रा ये पद्मरागालोहितमणयस्तैः रुचिरैः-चारुभिः पादैः-प्रत्यन्तपर्वतैः राजमानो भवति, तथा क्षमां-पृथिवीं च बिभ्रद् भवति, अमरसेव्योऽपि भवति, तथा द्रुतजातरूपविभोऽपि च स्यात् इति / हे ‘अकोप!' नास्ति कोपःक्रोधो यस्य सः अकोपः, तस्य संबोधनम् / हे आर्य !-स्वामिन् ! अमरस्तु “अर्यः स्वामिवैश्ययोः” (श्लो० 2628) इत्याह / हे धीर !-धैर्ययुक्त ! यद्वा हे धीर !-मेधाविन् / दधाति धियं इति धीरः / ‘डुधाञ् धारणपोषणयोः' 'सुसूधागृधिभ्यः क्रन्' (उणा० सू०), ‘घुमास्था०' (पा० अ० 6, पा० 4, सू० 66) इतीत्वम् / धियं ईरयति प्रेरयति वा / 'ईर गतिप्रेरणयोः' 'कर्मण्यण्' (पा० अ० 3, पा० 2, सू० 1) / संशयविपर्ययरहिता धियं राति-आदत्त इति वा / ‘रा दाने' 'आतोऽनुपसर्गे कः' (पा० अ० 3, पा० 2, सू० 3), 'आतो लोपः०' (पा० अ० 6, पा० 4, सू० 64) इत्यालोपः / हे 'जिनपते !' पातिरक्षति इति पतिः ‘पातेर्डतिः' (उणा० सू०) इति डतिप्रत्ययः / डित्त्वाट्टिलोपः / जिनानां पतिः जिनपतिः, तस्य संबोधनं क्रियते / हे 'अस्मरोद्रेकोपद्रुत !' स्मरस्य-कामस्य उद्रेक-आधिक्यं तेन उपद्रुतः-खलीकृतः, न स्मरोद्रेकोपद्रुतः अस्मरोद्रेकोपद्रुतः, तस्य संबो० / हे 'जातरूप !' जातं-प्रादुर्भूतं रूपं-सौन्दर्यं यस्य स तथा तस्य संबोधनम् / हे 'विभय !' विगतं भयं यस्य यस्माद् वा स तथा तस्य संबोधनं हे विभय ! / हे 'अतन्वार्यधीः !' अतनुः-अकृशा सा चासौ आर्या-प्रशस्या धीः-बुद्धिः यस्य स तथा तस्य संबो० /