________________ श्रीशान्तिजिनस्तुतयः 247 'अमरसेव्यया' अमरैः-देवैः सेव्यया-सेवनीयया / तन्वा जिताष्टापदाद्रे ! इत्यनेन तनुमेर्वोः साधर्म्यमूचे, तेन तनुविशेषणानि मेरोरपि मिलन्ति / तथाहि-मेरुरपि नवपद्मरागरुचिरैः नवाः-प्रत्यग्रा ये पद्मरागालोहिताख्या मणिविशेषास्तै रुचिरैः-चारुभिः पादै:-प्रत्यन्तपर्वतै राजमानो भवति, तथा क्षमां-पृथिवीं च बिभ्रद् भवति, तथा अमरसेव्योऽपि भवति, तथा द्रुतजातरूपविभोऽपि च स्यादिति / हे ‘अकोप !' कोपरहित ! / हे 'आर्य !' स्वामिन् ! / हे 'धीर !' धैर्ययुक्त ! यद्वा हे 'धीर !' मेधाविन् ! / हे 'जिनपते !' जिनेन्द्र ! / हे 'अस्मरोद्रेकोपद्रुत !' स्मरस्य-कन्दर्पस्य उद्रेकः-वेगः तेनोपद्रुतः-खलीकृतः, न स्मरोद्रेकोपद्रुतस्तस्यामन्त्रणं हे अस्मरोद्रेकोपद्रुत ! / हे 'जातरूप !' प्रादुर्भूतसौन्दर्य ! / हे 'विभय !' विगतत्रास ! / हे ‘अतन्वार्यधीः !' अतनुः-अंकृशा आर्या-प्रशस्या धी:-बुद्धिर्यस्य स तथा, तत्संबो० हे अतन्वार्यधीः / इदं प्रथमान्तविशेषणमपि / / अथ समासः-नवं च तत् पद्मं च नवपद्मं 'कर्मधारयः' / नवपद्मस्य रागो नवपद्मरागः 'तत्पुरुषः' / नवपद्मरागवद् रुचिरा नव० 'तत्पुरुषः' / तैर्नवपद्म० / मेरुपक्षे तु नवाश्च ते पद्मरागाश्च नव० 'कर्मधारयः' / नवपद्मरागैः रुचिरा नव० 'तत्पुरुषः' / तैर्नव० / अष्टापदस्याद्रिः अष्टापदाद्रिः 'तत्पुरुषः' / जितोऽष्टापदाद्रिर्येन स.जिताष्टा० ‘बहुव्रीहिः' / तत्सम्बो० हे जिताष्टा० / न विद्यते कोपो यस्य सः अकोपः ‘बहुव्रीहिः' / द्रुतं च तद् जातरूपं च द्रुतजात० 'कर्मधारयः' / द्रुतजातरूपस्येव विभा यस्याः सा द्रुतजा० ‘बहुव्रीहिः' / तया द्रुतजा० / अमरैः सेव्या अमरसेव्या ‘तत्पुरुषः' / तया अमरसेव्यया / जिनानां पतिः जिनपतिः 'तत्पुरुषः' / तत्सम्बो० हे जिनपते ! / शान्तिश्चासौ नाथश्च शान्तिनाथः ‘कर्मधारयः' / श्रियोपलक्षितः शान्तिनाथः श्रीशान्ति० 'तत्पुरुषः' / तत्सम्बो० हे श्रीशान्तिः / स्मरस्योद्रेकः स्मरोद्रेकः 'तत्पुरुषः' / स्मरोद्रेकेणोपद्रुतः स्मरोद्रे० 'तत्पुरुषः' / न स्मरोद्रेकोपगुतोऽस्मरोद्रे० तत्पुरुषः / तत्सम्वो० हे अस्मरो० / जातं रूपं यस्मिन् स जातरूपः 'बहुव्रीहिः' / तत्सम्बो० हे जातरूप० / विगतं भयं यस्मात् स विभयः ‘बहुव्रीहिः' / तत्सम्बो० हे विभय ! | न तनुः अतनुः 'तत्पुरुषः' / अतनुश्चासौ आर्या च अतन्वार्या 'कर्मधारयः' / अतन्वार्या धीर्यस्य सः अतन्वार्यधीः ‘बहुव्रीहिः' / तत्सम्बो० हे अत० / / इति काव्यार्थः / / 61 / / (2) सि० वृ०-राजन्त्येति / शान्त्यात्मकत्वात् शान्तिकर्तृकत्वाद् वा गर्भस्थेऽस्मिन् पूर्वोत्पन्नाशिवस्य शान्तिर्जातेति वा शान्तिः, स चासौ श्रियोपलक्षितो नाथः श्रीशान्तिनाथः, तस्य संबोधनं हे श्रीशान्तिनाथ ! त्वं मां रक्ष-त्रायस्वेत्यर्थः / ‘रक्ष रक्षणे' धातोः ‘आशीःप्रेरणयो' (सा० सू०७०३) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनम् / अत्र ‘रक्ष' इति क्रियापदम् / कः कर्ता ? / त्वम्' / कं कर्मतापन्नम् ? /