________________ 246 शोभनस्तुति-वृत्तिमाला 16. श्रीशान्तिजिनस्तुतयः अथ श्रीशान्तिनाथस्य स्तुतिःराजन्त्या नवपद्मरागरुचिरैः पादैर्जिताष्टापदा द्रेऽकोप ! द्रुतजातरूपविभया तन्वाऽऽर्य ! धीर ! क्षमाम् / बिभ्रत्याऽमरसेव्यया जिनपते ! श्रीशान्तिनाथास्मरोद्रेकोपद्रुत ! जातरूप ! विभयातन्वार्यधी ! रक्ष माम् / / 1 // 61 // - शार्दूल० ज० वि०-राजन्त्येति / हे श्रीशान्तिनाथ ! श्रियोपलक्षितशान्तिनाथ ! श्रीशान्तिनाथ जिन ! त्वं मां रक्ष-त्रायस्वेति क्रियाकारकसम्बन्धः / अत्र ‘रक्ष' इति क्रियापदम् / कः कर्ता ? 'त्वम्' / कं कर्मतापन्नम् ? 'माम्' / अवशिष्टानि श्रीशान्तिनाथस्य सम्बोधनानि, तेषां व्याख्या यथा-हे 'जिताष्टापदाद्रे !' जितः-तुलितोऽष्टापदाद्रिः-कनकशैलो येन स तथा, तत्सम्वो० हे जिता० / कया ? 'तन्वा' मूर्त्या करणभूतया / किं कुर्वन्त्या तन्वा ? 'राजन्त्या' विराजमानया / कैः कृत्वा ‘पादैः' अङ्घिभिः / कथंभूतैः पादै: ? 'नवपद्मरागरुचिरैः' नवस्य पद्मस्य यो रागः-रक्तिमा तद्वद् रुचिरैः-चारुभिः / पुनः किं कुर्वन्त्या तन्वा ? 'बिभ्रत्या' दधत्या / कां कर्मतापन्नाम् ? 'क्षमां' क्षान्तिम् / कथंभूतया तन्वा ? 'द्रुतजातरूपविभया' द्रुतम्-उत्तप्तं यत् जातरूपं-कनकं तद्वद् विभा-प्रभा यस्याः सा तया / पुनः कथं०