________________ श्रीधर्मजिनस्तुतयः शस्त्रविशेषः करे-हस्ते यस्याः सा तथा / पुनः किंविशिष्टा ? / 'केकिस्था' केकिनि-मयूरे तिष्ठतीति केकिस्था, केकिवाहनत्वात् / पुनः किंविशिष्टा ? / 'नूतनाम्भोजकरालाभा' नूतनं-प्रत्यग्रं यद् अम्भोजकमलं तद्वत् कराला-उत्कटा भा-कान्तिः यस्याः सा तथा। पुनः किंविशिष्टा ? / 'नयाचिता' नयोनीतिपन्थाः तेन आ-समन्तात् चिता-व्याप्ता / इति तुरीयवृत्तार्थः // 4 / 15 / 60 // ध० टीका केकिस्थेति / 'केकिस्था' मयूरस्थिता / 'वः' युष्माकम् / ‘क्रियात्' विधेयात् / 'शक्तिकरा' शक्तिः-आयुधविशेषस्तत्र करो यस्याः सा / 'लाभान्' अभीष्टार्थागमान् / 'अयाचिता' अप्रार्थिता / 'प्रज्ञप्तिः' प्रज्ञप्ती देवी / 'नूतनाम्भोजकरालाभा' नूतनं यदम्भोजं तद्वत् कराला-अत्युल्बणा आभा-दीप्तिर्यस्याः सा / 'नयाचिता' नीतियुक्ता // 4 / 15 / 60 // (6) अवचूरिः प्रज्ञप्तिर्देवी वो-युष्याकमयाचिता-अप्रार्थिता लाभान् दद्यात् / किंभूता ? / केकिनि-मयूरे तिष्ठतीति केकिस्था / शक्तिः-प्रहरणविशेषः करे यस्याः / नवकमलवत् कराला-अत्युल्बणा भा यस्याः सा / नयेननीत्या आचिता-व्याप्ता // 4 / 15 / 60 //