________________ 244 शोभनस्तुति-वृत्तिमाला 'नूतनाम्भोजकरालाभा' नूतनं-नवीनं यदम्भोजं-कमलं तद्वत् कराला-अत्युल्बणा भा दीप्तिर्यस्याः सा तथा / पुनः कथंभूता ? / 'अयाचिता' न विद्यते याचितं यस्याः सा अयाचिता / पुनः कथंभूता ? | 'नयाचिता' नयेन-नीत्या आ-समन्तात् चिता-व्याप्ता / / अनुष्टुप्छन्दः / तल्लक्षणं चेदम् "श्लोके षष्ठं गुरु ज्ञेयं, सर्वत्र लघु पञ्चमम् / द्विचतुःपादयोर्हस्व-मेतच्छ्लोकस्य लक्षणम् / / " // इति श्रीमहामहोपाध्यायभानुचन्द्र० श्रीधर्मनाथस्य स्तुतिवृत्तिः // 4 / 15 / 60 // . (3) सौ० वृ०–केकिस्थेति / प्रज्ञप्तिर्देवी वो-युष्माकं लाभान्-वाञ्छितार्थान् क्रियादित्यन्वयः / 'क्रियात्' इति क्रियापदम् / का कर्जी ? / 'प्रज्ञप्तिः' / 'क्रियात्' कुर्यात् / कान् कर्मतापन्नान् / 'लाभान्' बोधिलाभलक्षणान् / केषाम् ? / 'वः' युष्माकम् / किंविशिष्टा प्रज्ञप्तिः ? / 'अयाचिता' अप्रार्थिता / पुनः किंविशिष्टा ? / केकी-मयूरस्तत्र तिष्ठतीति केकिस्था' / पुनः किंविशिष्टा ? / शक्तिः-शस्त्रविशेषः सा करे यस्याः सा 'शक्तिकरा' / पुनः किंविशिष्टा प्रज्ञप्तिः ? / नूतनं-नवीनं यदम्भोजं-कमलं तद्ववत् कराला-उग्रा दीप्ता वा कान्तिर्यस्याः सा, अलाभा इत्यप्यर्थः / पुनः किंविशिष्टा प्रज्ञप्तिः ? / नयैःव्यवहारादिभिरा-समन्तात् चिता-व्याप्ता ‘नयाचिता' / इति पदार्थः / / अथ समासः केकावागस्यास्तीति केकी, केकिनि तिष्ठतीति केकिस्था / शक्तिः करे यस्याः सा शक्तिकरा / लभ्यन्ते प्राप्यन्ते इति लाभास्तान् लाभान् / न याचिता अयाचिता / प्रकृष्टा ज्ञप्तिर्यस्याः सा प्रज्ञप्तिः / अम्भसि जायते तदम्भोजं, नूतनं च तदम्भोजं च नूतनाम्भोजं, नूतनाम्भोजं करे यस्याः सा नूतनाम्भोजकरा / नयैः आ-समन्तात् आत्मधिया वा चिता-व्याप्ता नयाचिता / इति चतुर्थवृत्तार्थः / / 60 / / श्रीमद्धर्मजिनेन्द्रस्य, स्तुतेरो लिवीकृतः / सौभाग्यसागराख्येण, सूरिणा सौख्यकारिणा // 1 // // इति पञ्चदशधर्मजिनस्य स्तुतेरर्थः समाप्तः // 4 / 15 / 60 // दे० व्या०–केकिस्थेति / प्रज्ञप्तिनाम्नीदेवी वो-युष्माकं लाभान्-वाञ्छितार्थान् क्रियात्-कुर्यादित्यन्वयः / 'डुकृञ् करणे' धातुः / ‘क्रियात्' इति क्रियापदम् / का कर्जी ? / 'प्रज्ञप्तिः' / कान् कर्मतापन्नान् ? / 'लाभान्' / केषाम् ? / 'वः' / किंविशिष्टा प्रज्ञप्तिः ? / 'अयाचिता' न याचितं यस्याः सा तथा, सर्वेषां प्रार्थितार्थपूरकत्वेन स्वस्या अयाचकत्वात् / पुनः किंविशिष्टा ? / 'शक्तिकरा' शक्तिः