________________ श्रीधर्मजिनस्तुतयः श्रीप्रज्ञप्तिदेव्याः स्तुतिःकेकिस्था वः क्रियाच्छक्ति-करा लाभानयाचिता / प्रज्ञप्तिनूतनाम्भोज-करालाभा नयाचिता // 4 // 60 // - अनु० ज० वि०-केकिस्थेति / प्रज्ञप्तिः-प्रज्ञप्तिनाम्नी देवी वः-युष्माकं लाभान्-अभीष्टार्थागमान् क्रियाद्-विधेयादिति क्रियाकारकसंयोगः / अत्र क्रियात्' इति क्रियापदम् / का की ? 'प्रज्ञप्तिः' / कान् कर्मतापन्नान् ? 'लाभान्' / केषाम् ? 'वः' / प्रज्ञप्तिः कथंभूता ? 'केकिस्था' मयूरे स्थिता, मयूरवाहनेत्यर्थः / पुनः कथं०.? 'शक्तिकरा' शक्तिः-प्रहरणविशेषः करे-हस्ते यस्याः सा तथा / यद्वा शक्तौ करो यस्याः सा तथा / पुनः कथं० ? 'अयाचिता' अप्रार्थिता, कस्यापि पुरतोऽयाचनेत्यर्थः / पुनः कथं० ? 'नूतनाम्भोजकरालाभा' नूतनं-नवीनं यदम्भोज-कमलं तद्वत् कराला-अत्युल्बणा भादीप्तिर्यस्याः सा तथा / पुनः कथं० ? 'नयाचिता' नयेन-नीत्या आ-समन्तात् चिता-व्याप्ता / / ____ अथ समासः-केकिनि तिष्ठतीति केकिस्था 'तत्पुरुषः' / शक्तिः करे यस्याः सा शक्तिकरा 'बहुव्रीहिः' / यद्वा शक्तौ करो यस्याः सा शक्तिकरा ‘बहुव्रीहिः' / न विद्यते याचितं यस्याः सा अयाचिता 'बहुव्रीहिः' / नूतनं च तदम्भोजं च नूतनाम्भोजं 'कर्मधारयः' / नूतनाम्भोजवत् कराला नूत० 'तत्पुरुषः' / नूतनाम्भोजकराला आभा यस्याः सा नूत० 'बहुव्रीहिः' / नयेनाचिता नयाचिता 'तत्पुरुषः' इति काव्यार्थः / / 60 / / / // इति श्रीशोभनस्तुतिवृत्तौ श्रीधर्मनाम्नो जिनस्य स्तुतेर्व्याख्या // 4 / 15 / 60 // _ (2) सि० 0 केकिस्थेति / प्रज्ञप्तिः-प्रज्ञप्तिनाम्नी देवी वो-युष्माकं लाभान्-वाञ्छितार्थान् क्रियाद्विधेयादित्यर्थः / 'डुकृञ् करणे' धातोः आशिषि परस्मैपदे प्रथमपुरुषैकवचनं यात् / ‘यादादौ' (सा० सू० 814) इति रिङादेशः / तथा च ‘क्रियात्' इति सिद्धम् / अत्र ‘क्रियात्' इति क्रियापदम् / का की ? | ‘प्रज्ञप्तिः' प्रकृष्टा ज्ञप्तिः-बुद्धिरस्याः (सा) प्रज्ञप्तिः, क्तिच् / न च प्रज्ञप्ती तिड्यन्तो नदीवदिति ज्ञेयम् / कथंभूता प्रज्ञप्तिः ? / 'केकिस्था' केकिनि-मयूरे तिष्ठतीति केकिस्था, मयूरवाहिनीत्यर्थः / तस्यास्तद्वाहनत्वादिति भावः / पुनः कथंभूता ? / 'शक्तिकरा' शक्तिः-प्रहरणविशेषः करे-हस्ते यस्याः सा तथा। “शक्तिरस्त्रान्तरे गौर्या-मुत्साहादौ बले स्त्रियाम्” इति मेदिनी / पुनः कथंभूता ? / 1. 'राऽलाभा' इत्यपि पाठः /