________________ 242 शोभनस्तुति-वृत्तिमाला एव कं-जलं यस्मिन् सः) अक्षतारिकस्तस्मिन् अक्षतारिके / यद्वा नवनौरिति भारत्या आमन्त्रणम् / इति पदार्थः / / अथ समासः-जिनानां इन्द्रा जिनेन्द्राः, तेषां जिनेन्द्राणाम् / नवा नौरिव नौनवनौः / न क्षता . अक्षताः, अक्षताश्च ते अरयश्च अक्षतारयः, अक्षतारय एव कं-जलं यस्मिन् सः अक्षतारिकः, तस्मिन् अक्षतारिके / संसरणं संसारः, अम्भांसि निधीयन्ते अस्मिन्निति अम्भोनिधिः, संसार एव अम्भोनिधिः संसाराम्भोनिधिः, तस्मिन् संसाराम्भोनिधौ / तारा एव तारिका तस्याः सं० हे तारिके !-निर्मले ! त्वं प्रधाना (?) / इति तृतीयवृत्तार्थः / / 59 / / दे० व्या०-भारतीति / हे जिनेन्द्राणां भारति ! त्वं अवनौ-पृथिव्यां अस्मान् अव-रक्षपालयेत्यन्वयः / रक्ष रक्षणे' धातुः / 'रक्ष' इति क्रियापदम् | का की ? / त्वम्' / कान् कर्मतापन्नान् ? / 'अस्मान्' / कस्याम् ? / 'अवनौ' / कथम् ? / 'द्राक्-शीघ्रं यथा स्यात् तथेति क्रियाविशेषणम् / किंविशिष्टा त्वम् ? / 'नवनौः' नवा-नूतना नौः-नौका / भारत्याः संबोधनपदं वा / कस्मिन् ? | 'संसाराम्भोनिधौ' / (किंविशिष्टे ? / ) 'अक्षतारिके' अक्षता-अनुपहता ये अरयः-शत्रवः त एव कं-जलं यत्र स तस्मिन् / “कं शिरो जलमाख्यातम्” इत्यनेकार्थः / तारिके !' इति / तारयतीति तारिका, तस्याः सम्बोधनं हे तारिके ! इदमपि भारत्या एव सम्बोधनपदम् / इति तृतीयवृत्तार्थः / / 59 / / ध० टीका-भारतीति ! 'भारति !' वाणि ! / 'द्राक्' शीघ्रम् / 'जिनेन्द्राणां' वीतरागाणाम् / 'नवनौः' नूतना द्रोणी / ‘अक्षतारिके' अक्षतं-अनुपहतं अरय एव-शत्रव एव कं-सलिलं यत्र तस्मिन् / 'संसाराम्भोनिधौ' भवोदधौ / 'अस्मान्' नः / 'अवनौ' पृथिव्याम् / 'रक्ष' त्रायस्व / 'तारिके !' निर्वाहिके ! / जिनेन्द्राणां भारति ! संसाराम्भोनिधौ तारिके ! नवनौः ! द्राक् अस्मान् रक्षेति सम्बन्धः / / 59 / / अवचूरिः हे जिनवराणां वाणि ! अस्मानवनौ-पृथिव्यां रक्ष / किंविशिष्टा ? / नवा-प्रत्यग्रा नौः-मङ्गिनी संबोधनं वा / कस्मिन् ? / संसाराम्भोनिधौ-भवसागरे / अक्षता-अनुपहता अरयः-शत्रवः कं-जलं यत्र / हे तारिके !-निर्वाहिके ! / / 59 / /