________________ श्रीधर्मजिनस्तुतयः 241 नः अवनौ-भुवि द्राक्-शीघ्रं रक्ष-त्रायस्वेति क्रियाकारकसम्बन्धः / अत्र ‘रक्ष' इति क्रियापदम् / का की ? 'त्वम्' / कान् कर्मतापन्नान् ? अस्मान्' / कथम् ? 'द्राक्' / कस्याम् ? 'अवनौ' / त्वं कथंभूता ? 'नवनौः' नवा-प्रत्यग्रा नौः-नाविका / कस्मिन् ? 'संसाराम्भोधौ' भवसागरे / कथंभूते संसाराम्भोनिधौ ? ‘अक्षतारिके' अक्षता-अनुपहता ये अरयः-शत्रवः तद्रूपं कं-जलं यस्मिन् स तथा तस्मिन् / संसारो ह्यम्भोनिधेरुपमया वर्णितः, तत्र तु जलं भवति तेनात्र अक्षतारिरूपं जलमस्तीति तात्पर्यम् / इदं विशेषणं सम्बोधनत्वेन व्याख्येयम् / / ___ अथ समासः-जिनानां जिनेषु वा इन्द्रा जिनेन्द्राः 'तत्पुरुषः' / तेषां जिनेन्द्राणाम् / नवा चासौ नौश्च नवनौः ‘कर्मधारयः' / न क्षता अक्षताः ‘तत्पुरुषः' / अक्षताश्च तेऽरयश्च अक्षतारयः ‘कर्मधारयः' / अक्षतारय एव कं यस्मिन् सोऽक्षतारिकः ‘बहुव्रीहिः' / तस्मिन् अक्षतारिके / अम्भसां निधिः अम्भोनिधिः 'तत्पुरुषः' / [अम्भोनिधिरिवाम्भोनिधिः / ] संसारश्चासावम्भोनिधिश्च संसाराम्भोनिधिः ‘कर्मधारयः' / तस्मिन् संसा० / / इति काव्यार्थः / / 59 // सि० वृ०-भारतीति.। जिनेन्द्राणां भारति !-तीर्थकृतां वाणि ! हे तारिके-निर्वाहिके / त्वं अस्मान्नः अवनौ-भुवि द्राक्-शीघ्रं रक्ष-त्रायस्वेत्यर्थः / ‘रक्ष रक्षणे' धातोः ‘आशीःप्रेरणयोः' (सा० सू० 703) कर्तरि परस्मैपदे मध्यमपुरुषैकवचनं हिः / 'अप्०' (सा० सू० 691), 'अतः' (सा० सू० 705) इति हेर्लुक् / अत्र रक्ष' इति क्रियापदम् / का की ? / त्वम्' / कान् कर्मतापन्नान् ? / अस्मान्' / कथम् ? | 'द्राक्' / कस्याम् ? / 'अवनौ' / कथंभूता त्वम् ? / 'नवनौः' नवा-प्रत्यग्रा चासौ नौश्च नवनौः इति 'कर्मधारयः' / “स्त्रियां नौस्तरणिस्तरिः” इत्यमरः (श्लो० 487) / कस्मिन् ? | ‘संसाराम्भोनिधौ' संसरणं संसारः स एव अम्भो निधीयतेऽस्मिन् इत्यम्भोनिधिः-समुद्रस्तस्मिन् / 'कर्मण्यधिकरणे च' (पा० अ० 3, पा 3, सू० 93) इति किः / कथंभूते संसाराम्भोनिधौ ? / ‘अक्षतारिके' अक्षता-अनुपहता ये अरयः-शत्रवः त एव कं-जलं यस्मिन् स तस्मिन् / / 59 / / सौ० वृ०-भारतीति / हे भारति !-जिनेन्द्राणां वाणि ! हे तारिके ! द्राक्-शीघ्रं अवनौ-पृथिव्यां अस्मान् रक्षेत्यन्वयः / 'रक्ष' इति क्रियापदम् / का कर्जी ? / 'त्वम्' / 'रक्ष' अव / कान् कर्मतापन्नान् ? / 'अस्मान्' / कथम् ? / 'द्राक्' शीघम् / कस्याम् ? / 'अवनौ' पृथिव्याम् / किंविशिष्टा त्वम् ? / नवा-नूतना नौरिव नौः-तरणिः 'नवनौः' / कस्मिन् ? / संसारः-चतुर्गतिभ्रमणलक्षणः स एवाम्भोनिधिः-समुद्रस्तस्मिन् (संसाराम्भोनिधौ / कथंभूते संसा० ? अक्षता-अनुपहता अरयः-शत्रवस्त