________________ 240 शोभनस्तुति-वृत्तिमाला दे० व्या०-जीयादिति / स 'जिनौघः' जिनानामोघः-समूहः जीयाद्-जयतादित्यन्वयः / 'जि जये' धातुः / ‘जीयात्' इति क्रियापदम् / कः कर्ता ? / 'जिनौघः' / किंविशिष्टो जिनौघः ? / यत्तदोर्नित्याभिसम्बन्धाद् यो जिनौघः भामण्डलत्विषा ध्वान्तान्तं ततान इति सम्बन्धः / 'तनु विस्तारे' धातुः / 'ततान' इति क्रियापदम् / कः कर्ता ? / 'यः' / कं कर्मतापन्नम् ? / 'ध्वान्तान्तं' अज्ञानमन्धकार वा तस्य अन्तं-नाशम् / “ध्वान्तं भूच्छायान्धकारम्” इत्यभिधानचिन्तामणिः (का० 2, श्लो० 60) / कया ? / 'भामण्डलत्विषा' / (किंविशिष्टया ?) / लसमानया-विलसन्त्या / पुनः किंविशिष्टया ? / 'ततानलसमानया' ततो-विस्तारं प्राप्तः यः अनलः-वह्निः तेन समानया-सदृश्या / इति द्वितीयवृत्तार्थः || 58 // ध० टीका-जीयादिति / 'जीयात्' जयतात् / 'जिनौघः' जिनसमूहः / 'ध्वान्तान्तं' तमोविनाशम् / 'ततान' विस्तारितवान् / 'लसमानया' विलसन्त्या / ‘भामण्डलश्रिया(त्विषा)' प्रभावलयसम्पदा / 'यः' / 'सः' / 'ततानलसमानया' ततः-प्रसृतो योऽनलः-शिखी तेन समानयासदृश्या / स जिनौघो जीयाद् भामण्डलश्रिया(त्विषा) ध्वान्तान्तं यस्ततानेति योगः / / 58 / / अवचूरिः स जिनौघो जीयात् / भामण्डलकान्त्या यो ध्वान्तध्वंसं ततान-अकृत / किंभूतया ? / ततोविपुलो योऽनलो-वहिस्तत्सदृश्या लसमानया-वर्धमानया / / 58 / / भारत्याः संकीर्तनाभारति ! द्राग् जिनेन्द्राणां, नवनौरक्षतारिके / संसाराम्भोनिधावस्मा-नवनौ रक्ष तारिके ! // 3 // 59 // - अनु० (1) ज०वि०-भारतीति ! हे जिनेन्द्राणां भारति ! तीर्थकृतां वाणि! हे तारिके-निर्वाहिके ! त्वं अस्मान्