________________ श्रीधर्मजिनस्तुतयः 239 आशिषि कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं यात् / 'ये' (सा० सू०७७९) इति दीर्घः / तथा च 'जीयात्' इति सिद्धम् / अत्र ‘जीयात्' इति क्रियापदम् / कः कर्ता ? / 'जिनौघः' जिनानां ओघो जिनौघः / उह्यते वहति वा ओघः न्यवादौ साधुः / “ओघो वृन्देऽम्भसा रये” इत्यमरः (श्लो० 2388) / यत्तदोर्नित्यसंबन्धात् सः कः ? | यो जिनौघो भामण्डलत्विषा-भामण्डलकान्त्या ध्वान्तस्य-तमसः अन्तं-विनाशं ततान-विस्तारितवान् / 'तनु विस्तारे' धातोः परोक्षे कर्तरि परस्मैपदे प्रथमपुरुषैकवचनं णप् / 'द्विश्च' (सा० सू० 710) इति धातोर्द्वित्वम् / अत उपधायाः' (सा० सू० 757) इति वृद्धिः, ‘स्वरहीनं०' (सा० सू० 36) / तथा च 'ततान' इति सिद्धम् / अत्रापि 'ततान' इति क्रियापदम् / कः कर्ता ? | 'यः' / कं कर्मतापन्नम् ? / 'ध्वान्तान्तम्' / “अन्तः प्रान्तान्तिके नाशे, स्वरूपेऽतिमनोहरे” इति विश्वः / कया ? / 'भामण्डलत्विषा' भामण्डलो देवनिर्मितो भगवत्पृष्ठे प्रभामण्डलस्तस्य त्विट्-कान्तिः तया / कथंभूतया ? | ‘लसमानया'-लसन्त्या वर्धमानया वा / पुनः कथंभूतया ? | 'ततानलसमानया' ततोविस्तृतो यः अनलः-वह्निः तेनं समानया-सदृश्या / / 58 / / सौ० वृ०-जीयादिति / स जिनौघः-तीर्थकरसमूहः जीयादित्यन्वयः / “जीयात्' इति क्रियापदम् / कः कर्ता ? | 'जिनौघः' / 'जीयात्' जयतात् / किंवि० जिनौघः ? / 'सः' प्रसिद्धः / प्रसिद्धार्थः तच्छब्दो यच्छब्दमपेक्षते / सः कः ? / यो जिनौघः ध्वान्तान्तं ततान इत्यन्वयः / 'ततान' इति क्रियापदम् / कः कर्ता ? / 'यो जिनौघः' / 'ततान' / विस्तारयामास / कं कर्मतापन्नम् ? / 'ध्वान्तान्तं' ध्वान्तं-अज्ञानतमः तस्य अन्तो-विनाशस्तं ध्वान्तान्तम् / कया ? / भा-प्रभा तस्या मण्डलम् यद्वा भामण्डलं-सुस्कृतप्रातिहार्यरूपं तस्य त्विट्-कान्तिः तया ‘भामण्डलत्विषा' / किंविशिष्टया भामण्डलत्विषा ? / 'लसमानया' देदीप्यमानया। पुनः किं० भामण्डलत्विषा ? / ततो-विस्तीर्णो यः अनलः-वह्निः तत्सदृश्या 'ततानलसमानया / यद्वा ततो-विस्तृतः अत एव अनलसः-अमदः मानः-प्रमाणं यस्याः सा ततानलसमाना तया ततानलसमानया / इति पदार्थः / / अथ समासः-जिनानां ओघः जिनौघः / ध्वान्तस्य अन्तो ध्वान्तान्तः, तं ध्वान्तान्तम् / लसति-दीप्यतीति लसमाना, तया लसमानया / भाया मण्डलं भामण्डलं, भामण्डलस्य त्विट् भामण्डलत्विट्, तया भामण्डलत्विषा / ततश्चासौ अनलश्च ततानलः, ततानलवत्(लेन) समाना ततानलसमाना, तया ततानलसमानया / न अलसः अनलसः, अनलसश्चासौ मानश्च अनलसमानः, ततोऽनलसमानो यस्याः सा ततानलसमाना, तया ततानलसमानया / इति द्वितीयवृत्तार्थः / / 58 / / 1. मण्डलशब्दस्य पुंल्लिगे प्रयोगो विचारणीयः /