________________ 238 शोभनस्तुति-वृत्तिमाला 'दयायमहिताय' दया च यमाश्च तेषां हिताय / 'ते' तुभ्यम् / हे श्रीधर्म ! मामरेन्द्रनागेन्द्रैर्महितायते ! (ते) नमः इत्यन्वयः / / 57 / / (6) अवचूरिः हे धर्मनाथ ! जिन ! ते-तुभ्यं नमोऽस्तु / कथंभूताय ! / निर्गतः कर्मोदयो-मलोत्पादो यस्य स तस्मै निर्गतकर्मोदयाय / ‘महिता'-पूजिता आयतिः-उत्तरकालः प्रभुता वा यस्य / यद्वा महिता आसमन्ताद् यतयः-साधवो यस्य तत्संबोधनम् / कैः ? | मामरेन्द्रनागेन्द्रैमाश्चामराश्च तेषामिन्द्रा नागेन्द्रा नागेन्द्रस्योपलक्षणात् पातालवासिदेवैः / दया च यमाश्च-व्रतानि तेषां हिताय। ते-तुभ्यम् / / 57 / / जिनसमूहस्य स्तुतिःजीयाज्जिनौघो ध्वान्तान्तं, ततान लसमानया / भामण्डलत्विषा यः स, ततानलसमानया // 2 // 58 // ज० वि०-जीयादिति / स जिनौघो-जिनसमूहः जीयाद्-जयतादिति क्रियाकारकसण्टङ्कः / अत्र 'जीयात्' इति क्रियापदम् / कः कर्ता ? 'जिनौघः' / स इति तच्छब्दसम्बन्धाद् यच्छब्दघटनामाह-यो जिनौघो भामण्डलत्विषा-भामण्डलकान्त्या ध्वान्तान्तं-तमोविनाशं ततान-विस्तारितवान् / अत्रापि 'ततान' इति क्रियापदम् / कं कर्मतापन्नम् ? 'ध्वान्तान्तम्' / कया ? 'भामण्डलत्विषा' / कथंभूतया ? 'लसमानया' विलसन्त्या वर्धमानया वा / पुनः कथंभूतया ? 'ततानलसमानया' ततः-प्रसृतो योऽनलोवहिस्तेन समानया-सदृश्या / / ___ अथ समासः-जिनानामोघो जिनौघः 'तत्पुरुषः' / ध्वान्तस्यान्तो ध्वान्तान्तः 'तत्पुरुषः' / तं ध्वान्तान्तम् / भाया मण्डलं भामण्डलं 'तत्पुरुषः' / भामण्डलस्य त्विट भामण्डल० 'तत्पुरुषः' / तया भामण्डल० / 'ततश्चासावनलश्च ततानलः 'कर्मधारयः' / ततानलेन समाना तता० 'तत्पुरुषः' / तया तत० / / इति काव्यार्थः / / 58 // सि० वृ०-जीयादिति / स जिनौघः-जिनसमूहः जीयाद्-जयतादित्यर्थः / 'जि जये' धातोः