________________ श्रीधर्मजिनस्तुतयः 237 [तुभ्यम्] ? / दया-सकलप्राणिनाम् अवनं यमा-महाव्रतानि तेषां हिताय-हितकारिणे ‘दयायमहिताय' / यद्वा आङ् मर्यादया यतयो यस्य स आयतिः तस्य सं० हे आयते / महिता-पूजिता आयतयो यस्य स महितायतिः / तस्य सं० हे महितायते ! / ते-तुभ्यम् नमोऽस्तु / इति पदार्थः / / अथ समासः-दुर्गतौ प्रपतत्प्राणिधारणाद् धर्मः / यद्वा स्वस्वभावं निर्मलतया धारणाद् धर्मः / यद्वा भगवति गर्भस्थे मातुर्धर्मकरणे दोहदानुमानेन नाम्ना धर्मः / श्रिया युक्तो धर्मः (श्रीधर्मः), तस्य सं० हे श्रीधर्म ! / कर्मणां उदयः कर्मोदयः, निर्गतः कर्मोदयो यस्माद् यस्य वा तस्मै निष्कर्मोदयाय / महिता आयतिः उत्तरकालो यस्य स महितायतिः, तस्य सं० हे महितायते ! / यद्वा आङ् मर्यादया यतयः आयतयः, महिताः-पूजिता [वन्तो वा] आयतयो यस्य स महितायतिः, तस्य सं० महितायते ! / माश्च अमराश्च मामराः, मामराणां इन्द्रा-मामरेन्द्राः, नागानां इन्द्राः नागेन्द्राः, मामरेन्द्राश्च नागेन्द्राश्च मामरेन्द्रनागेन्द्राः, तैः मामरेन्द्रनागेन्द्रैः / दया च यमाश्च दयायमाः, दयायमानां दयायमेषु वा हितं यस्य स दयायमहितः, तस्मै दयायमहिताय / अनुष्टुप्छन्दसा स्तुतिरियम् / मध्यान्तपदयमकाः / “पञ्चमं लघु सर्वत्र, सप्तमं द्विचतुर्थयोः / षष्ठं गुरु विजानीया-देतत् पद्यस्य लक्षणम् // " इति प्रथमपद्यार्थः // 57 // दे० व्या०-नम इति / हे श्रीधर्मनाथ ! ते-तुभ्यं नमः अस्तु इत्यन्वयः / 'नमः' इत्यव्ययम् / धर्मशब्देनात्र धर्मनाथ एव गृह्यते / पदैकदेशे पदसमुदायोपचारा भीमो भीमसेन इतिवत् / किंविशिष्टाय तुभ्यम् ? / 'निष्कर्मोदयाय' निर्गतः कर्मणां-ज्ञानावरणादीनां उदयः-उत्पत्तिर्यस्मात् स तस्मै, अकर्मका -येत्यर्थः / पुनः किंविशिष्टाय ? | ‘दयायमहिताय' दया-कृपा यमा-महाव्रतानि (अनयोः) पूर्वं 'द्वन्द्वः', तेषु हितं आनुकूल्यं यस्य स तस्मै / “अहिंसासत्यमस्तेयब्रह्माकिञ्चनता यमाः” इत्यभिधानचिन्तामणिः (का० 1, श्लो० 81) / ‘महितायते !' इति / महिताः-पूजिता आ-समन्तात् यतयो-मुनयो यस्य स तस्यामन्त्रणं हे महितायते ! / भगवत्सम्बोधनम् / कैः ? / 'मामरेन्द्रनागेन्द्रैः' मा-मनुष्याः अमरेन्द्राः-शक्रा(दयः) नागेन्द्रा-धरणेन्द्रादयः एतेषां द्वन्द्वः तैः / / इति प्रथमवृत्तार्थः / / 57 // ध० टीका-नम इति / 'नमः' इति स्तुत्यर्थे / श्रीधर्म !' श्रीधर्माभिधान ! जिन ! / 'निष्कर्मोदयाय' निर्गतः कर्मोदयो-मलोत्पादो यस्य तस्मै / 'महितायते !' महिता-पूजिता आयतिः-महिमा-प्रभुता यस्य तस्यामन्त्रणम् / 'मामरेन्द्रनागेन्द्रैः' माश्च अमराश्च तेषामिन्द्राः मामरेन्द्राः ते च नागेन्द्राश्च तैः /